________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
यता भवत्येव ज्ञानात्मनामपि पूर्व दशनात्मता, तत्पूर्वकत्वाज्ज्ञानास्मनाम् । अत एव च ' जस्स नाणाया तस्स दंसणाया नियमा अस्थि, जस्स दंसणाया तस्स गाणाया सिय अस्थि सिय पत्धि 'त्ति भजना पाक्षिकी गीताऽविगीतज्ञानरत्नाकरैः । पूर्वापरभावमनुसन्धायैव च प्रवृत्तमेतत्सूत्रम् , तेन केवलिनोऽग्ज्ञिानवत्त्वेऽपि न क्षतिः। प्राधान्यमवलम्ब्य चैतस्य सूत्र 'कइविहे गं भंते ! उवओगे पण्णत्व गोयमा ! दुविहे पण्मत्ते, तं जहा-सागारोवओगे य अप्पागारोव
ओगे य'त्ति क्रमः पठ्यते, न तु प्रवृत्तिकम एष एनयोनियतः । छद्मस्थमावस्य प्राय दर्शनं, पश्चादेव ज्ञानमुदयते यतः । इत्यलमतिप्रस्तुतेन ।
द्विभदाश्चामी जन्तवः संसारिणो मुक्ताश्चति । ये हि जगद्वैचित्र्यनिबन्धनतासिद्ध-विचित्राएपरिकरितमूर्तयः ते ताहशादृष्टबन्धनिधत्तनिकाचनोदीरणोदयनिर्जरासत्तापेनं यथायथं परिदृश्यमानचरतुरन्तापारसंसारपर्यटनपरायामा इति संसरणशीलाः संसारिण इत्युच्यन्ते । अन्त्यास्तु पथ्यागदसेवनादिभिरातुरा इव रोगेभ्यो वे ज्ञानदर्शनचरणानुशीलनेन परिशाटितकर्मकश्मलतया कर्मद्वन्द्वनिश्शेषविलयावालस्वस्वभावरविर्भावाः पूर्वप्रयोग -बन्धच्छेदाऽसङ्गत्व-तथागतिपरिणामप्रयुक्तानन्तरसमयमात्रावाप्तगमनपरिणतजीवोपग्राहकधर्मास्तिकायपरिगतलोकान्तक्षेत्रलक्षणमुक्तिपदाः कर्माजवंजविभावमुक्तत्वेव मुक्ताः ते तथोच्यन्ते ।
अनेन ये मोहमदिरोन्मत्तताऽवाप्तविवेकनाशाः प्रलेपुः सर्वदर्शनसङ्ग्रहकारप्रभृतयः , तन्निरस्तम् । ते ह्याचख्युः जैनमन्तव्यनित्येवंविध जात्यन्धरविरूपोल्लेखन्यायेन-'गत्वा गत्वा निवर्तन्ते चन्द्र
For Private And Personal Use Only