________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
९.८
लोकविंशका
१.
याई पडुच्च अर्णिदिए वक्कमद, लडिदियाई पडुच्च सईदिए वक्कमइ [ भग० ] तिवचनाद् लब्धीन्द्रियस्वमभ्युपगम्यते परं न तानि विनोपकरणादीन्द्रियाणि अमाणि ज्ञानमुत्पादयितुम्, गर्भजन्मनामेव चैतस्याः ः सत्ताया गर्भाद् गर्भमितिवचनाद विशेषेण सम्भवात् । तेन मत्यायनभ्युपगमेऽपि पूर्वोक्तरीत्या तदनपायात किं प्रयाजनमुपयोगात्मना प्रथग्भणितेनेति । 'जाइम्स उभयवं अपरिवडिएहि तिहि उ नाणेहिं इत्यापि पूर्वोक्तरीत्यनुगतमेव तत्रापि । यतो नहीन्द्रियनिमित्तोऽवगमो नियतो न च तदुपयोगात्मना समाय इति चेत् ।
7
सत्यं यथाहि तत्र वीर्यस्य व्यापकस्य योगादिभ्यो व्याप्येभ्यो निर्वार्य पृथग्वचनम्, तथाऽत्रापि व्याप्याम्यां ज्ञानदर्शनाभ्यां निर्धार्य पृथगुक्त उपयोगात्मेति न कथञ्चिदपि विरुद्धताऽष्टविधात्ममार्गणायाः । अन्यच्च - उपयोगात्मनाऽऽत्मस्थैर्यं ज्ञानदर्शनात्मभ्यां तु परावतः, आन्तर्मुहूर्त्तकत्वात्तलब्ध्योः । अत एव 'जस्स उपयोगाया तस्स नाणाया वासणाया वा नियमओ अस्थि 'त्ति वैकल्पिको नियमः सङ्गच्छते। यद्वा-सामान्येनोपयोगो बोधस्वभावोऽनिर्धारितसामान्यविशेषान्यतरप्रधानोपसर्जनीभावः, स एव च विशेषप्रधानो यदि तदा ज्ञानशब्दव्यपदेश्यः, सामान्यमुख्यका दर्शनशब्दव्यपदेश्यः । तथा चोपयोगम्यैव विभज्यमानं द्वैविध्यमपि सङ्गच्छते, सङ्गच्छते ज्ञानात्मनां दर्शनात्मनां चोपयोगात्मनियतता । विशेषः परमेतावानत्र यदुतसाकारं ज्ञानं निराकारं च दर्शनमित्याख्यायते आम्नाये । तत्र सामान्यप्राधान्येन निर्विकल्पत्वेन वा बोक्मात्रस्य दर्शनात्मता शेया । एवं च द्रव्योपयोगदर्शनात्मनां परस्परं समयं न व्याहन्यते ।
For Private And Personal Use Only