________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
૨૭
ततस्तु यत्र यत्र प्रदेशेषु कर्माssवृणोति ज्ञानादिमात्रां मात्रयापि, तत्र तत्र सर्वथाऽप्यावरणं स्यादेव । अत एव च सूक्ष्मैकेन्द्रिअपर्याप्तत्वप्रथमसमयवर्त्तिनां जघन्या ज्ञानमात्रा आम्नायते आम्नायवेदिभिः तेषाम् । यतः शेषाः समस्ता आवृता एव प्रदेशाः कर्मणया सर्वथा । न च वाच्यं कथं तर्हि तेषां ज्ञानवत्त्वं, प्रदेशाएकं हि सर्वदा सर्वथा निर्मलतममेव । कांस्यपात्रीवोदकं न तत् शति कर्मणा । केवलात्मस्वरूप प्रदेशनिभा हि ते सर्वदा सर्वेषां प्रदेशा अ
1
ननु कथं न तेषां निखिलजगत्प्रभुप्रभाव तिरस्कारिणोऽपि कर्मणो गोचरतेति ? चेद् । इतरे हि प्रदेशा जाज्वल्यमानज्वालावली प्रबलतापतापितोद्वर्त्तमानवारिविचयवच्चञ्चलतमाः, ततश्च योगवन्तः, कर्मवर्गणासंयोगश्च ततस्तेषां नैवमितरेऽष्टौ ।
1
ननु कोऽयमुपयोगो ? यमपेक्ष्योच्यते-' द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चेति । चारित्रं वीर्य चेत्यष्टविधा मार्गणास्तस्य ||१|| इति । [ प्रशम० ] यतो ज्ञानदर्शनान्यतरत्वेनाष्टविधत्वं मार्गणायाः, ज्ञानदर्शनात्मनोरेवोपयोगात्मत्वात् । न च वाच्यं ज्ञानदर्शनयोरिन्द्रि यानिन्द्रियप्रभवत्वान्मतिश्रुतयोः तत्पूर्वकत्वाच्च अवधिमनःपर्याययोगत्यन्तरभावाच्च केवलस्य भवत्येवोपयोगात्मेति । ओघज्ञानस्याप्यनिन्द्रियज्ञानार्थत्वात् मत्याः तद्भावाच्च श्रुतस्यापि तदानीं सद्भावात् । गत्यन्तराले यद्यपि च ' जीवेणं भंते ! गभाओ गव्यं वकममाणे किं सइदिए कम अणिदिए वक्कमइ ? । गोयमा ! सिय सइंदिए सिय अििदए, सेकेणठेणं भंते ! एवं बुच्चइ, गोयमा ! दविदि
For Private And Personal Use Only