________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
सर्वथा येन व्याकृतम् । यायादसल्यतां द्रव्य-गुणत्वाया च कल्पना ॥३८॥ सप्तम्या न न निर्देशो युज्यतेऽत्राप्रकल्पितः । एकत्र यदहे.
ायाद् विभक्तयः समा मताः ।।३१।। तथा च स्वभावेने-बोपयोगयुता जीवा इति सिद्धम् । __ न च वाच्यं जीवानामुपयोगवत्त्वस्वाभाव्याद् ज्ञानिन एवं निखिला असुमन्तः किं न म्युरिति । सन्त्येव सर्वेऽपि नथाविधाः , नहि कोऽयज्ञो जीवः, सुखदुःखादिवेदनानुपपत्तेः । अस्तु चेत कर्मनैरर्थक्यस्य वनलेपायमानता । कथं तर्हि बोधवैचित्र्यम् ? सम्यगपृष्ठाः , यदा हि जीवाः स्वभावस्थाः, न तदा कदापि बोधवैचित्र्यम् , आविर्भूतयथार्थात्मस्वभावानां केवलवत्त्वात्तम्य चेकविधत्वात् । परं यदा कर्मपटलावृताः , तदा यथानैर्मल्यमेव बोधोत्पादः । निर्मलं हि सद्रत्नं स्वभावतो यथा यथा मलीमसतां विरहयति, तथा तथा स्वस्वभावभूतां द्युतिं प्रकटयति । यथा वाऽऽवृतो दीपो यथा यथाऽऽवरणविलयवान , प्रकाशयति तथा तथा परं, नैतावता तयोरप्रकाशस्वभावता । जीवानामप्येवमेवोपयोगस्वभावाज्ज्ञानादिम्वभावता।
ननु च यथा तारतम्यवत्त्वाद् ज्ञानोत्पादस्य विश्रान्त्या साध्यते केवलम् , तथा किं न तारतम्यवत्त्वाद् ज्ञानहानेः सर्वथा क्षीणता ज्ञानम्यापि । न्यायस्य समानत्वात् स्वीकार्यमेवमपि । तथा च स्पष्टैवाजीवत्वापत्तिर्जीवानामपि । न चैतदभिमतमिति चेत् । सत्यम् , यथा हि घनतरापि घनाघनपटली न तिरस्कर्तुं प्रभवति प्रभापतिप्रभां सर्वथा संवरितुं, दिवसरजन्योर्भेदाभावप्रसङ्गात् , तथाऽत्रापि समुदिता अपि त्रिभुवनगताखिलकर्मवर्गणा नावरितुं जीवस्यैकस्यापि सर्वा ज्ञानमात्रां भवनि प्रभविष्णुः , येनापटान जीवस्याजीवता ।
For Private And Personal Use Only