________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
अन्यथा तन्मया जीवा इत्याख्यास्यन् बुधोत्तमाः ॥२१॥ यतो मतो न गुणिनो गुणो भिन्ना न चान्यथा । सर्वथा किन्तु स्याद् भिन्नाभिन्न आम्नायत श्रुते ।।२३।। तथा चाऽर्हति सम्बन्ध-मविष्वगभावतो द्वयोः । अन्यथाऽयं गुणी चायं गुण इत्यभिधा क्षयेत् ।।२४॥ अन्यच्च युतताख्यानाजीवास्तद्विकला नहि । अन्ययोगव्यवच्छेद नान्ये तद्वत्त्वमर्हति ॥२५।। समवायेन चैतन्य-सम्बन्धाच्चेतना इमे । चेन्न कि नभसा योगोऽनयाऽसौ तत्र यन्मतः ।।२६।। न तत्र चेतना चेत् किं सती सा युज्यतेऽमुना । जीवेषु ज्ञानयुक्तेषु न कार्य तच्छिखण्डिना ||२७|| किञ्चाऽन्यत्र सतीयं प्राग न वाऽऽद्ये कल्पनाहतिः । यतो गुणो न गुणिनं विरहय्य स्थितो भवेत् ।।२८।। अन्त्ये कथं तया तस्य सम्बन्धं कर्तुमाशते । न वन्ध्यातनयोद्वाहो निपुणेनापि तन्यते ।।२०।। यथाऽयं जन्मिभिर्युज्यादिमां किं नभसा तथा । योजयेन्नैव नियम-विधातेह न कश्चन ॥३०॥ अर्वाक् च चेतनायोगात् जीवत्वं जन्मिनां नु किम् । न सुखदुःखयोगोऽपि युज्यते गतचेतने ।।३१।। चेदजीवैर्मतो बुद्ध या योगः सम्बन्धसाधितः । अजीवत्वं तथा ध्वंसेज्जीवत्वं चोद्भवेन्न किम् ।।३२।। ओमिति चेत् पदार्थानां विलीनं हि व्यवस्थया । ध्रुवो नास्तिकवादश्चाहूयोररीकृतस्त्वया ॥३३।। सिद्धं चेतरथा जीवाश्चेतनासङ्गताः समे । सर्वे जडा वियुक्ताश्चानयेत्यईन्मतोदितम् ||३४|| महर्षयो जगुः सम्यक् उपयोगोऽस्य लक्षणम् । लक्षणं प्रोज्य नो लक्ष्यं दोषपोषप्रसङ्गतः ।।३।। तथा सति भणं द्रव्यं निर्गुणं निष्क्रियं न च । समवायम्य यत् सिद्धौ तदर्थ साध्यते सकः ।।३६।। अविष्वग्भावसम्बन्धे न भेदो येन याजनम् । कार्य यथा क्षणं हेतु-फलत्वे तत्प्रकल्पनम् ।।३७।। न चाभेदोऽपि मङ्गीतः
For Private And Personal Use Only