________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकfafशका
विनामेव तद्भावाद विशेषेति । क्षयोपशम आत्मप्रयत्नसाध्यः, सोऽपि ज्ञानलेशकृत एवेति । न च ज्ञानशून्योऽस्त्यात्मा, 'सव्वेसिंपि यणं अक्खरस्स अणंतमो भागो निच्चुग्घाडिओ चिट्ठइ, सोविय णं जइ आवरिज्जा जीवो अजीवत्तणं पाविज्जे 'त्यादि [ नन्दि० ] प्रवचनप्रामाण्यात् । कर्मनिराकृतये च यदुच्यते तै:-' चित्तो भूयसहाव' इत्यादि तन्निराचिकीर्षयेदमाहुः
चित्तो कम्मसहावो भणिओ तत्तो व लाभहरणादी | सिद्धत्ति अस्थि जीवो तम्हा परलोगगामी उ || १२० ॥ यच्च- ' जलबुदबुदवजीवा' इत्यादिना कर्मनिराकरणं, तदप्यनालोचितमेव रमणीयम् । यतो नहि केवलजलमात्रेण भवन्ति बुद्बुदाः, सर्वत्र सर्वदा तत्प्रसङ्गात्, किन्तु समीरणादिसहचारिसमागमादिनैव, तथा अत्रापि न केवलमात्ममात्रेण भूतमात्रेण वा वैचित्र्यमुपपन्नं स्याद् विनाऽन्यं भेदकम् । यश्च भेदकः सोऽपि विचित्रतानुकार्येवेति विचित्रस्वरूप एवाभ्युपगन्तव्यः । स एव पदार्थः कर्मेत्युच्यते आस्तिकैः । यदि च नामान्तरेणाभ्युपगम्यते भवद्भिः तथापि स्वरूपभेदाभावे न विवाद इत्यलमतिविवादेन |
विचार्य सौ सुरेर्बृहस्पतेरपाकृतौ । तदेवालेखि ग्रन्थस्थं न स्तैन्यं पभाषणे ||१|| प्रस्तावोऽत्रोपयोगे न पञ्चास्तिकायचर्चन । तथापि न स आधार सिद्धिमृते प्रसिद्धयति || २ || विप्रतिपत्तिरत्राभूयेषां तानव्युदस्य किम् । प्रतीतिः किं समीचीना स्यात् ततस्तन्निराकृतिः || ३|| आत्मस्वभावसिद्धये वै शेषं प्रासङ्गिकं गतम् । न भोजने जने वृत्तिः केवले संस्कृतिं गते || ४ || यच्चोशन्ति बुधाः केचिच्चैतन्यसमवायतः । चेतनाः सर्व आत्मानोऽन्यथा सम्बन्धशू
For Private And Personal Use Only