________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
हादम्-यथाहि यूनो विलयाहारादभिलाषो न इहत्यविलयाहाराद्यभिलाषपूर्वकः , किन्त्वभिलापमात्रपूर्वकः । तथाऽत्रापि न स्तनाभिलाषस्य स्तनामिलाषपूर्वकता, किन्त्वभिलाषसामान्यपूर्वकता। सा च गर्भगृहेऽभिलाषाभ्युपगमात् सिद्धसाधना सती न भवान्तरानुयायितामात्मनोऽवगमयितुमलमिति प्रथमत्वविशेषणनैरर्थक्यापत्त्या परिहियते सूरिभिरेतत् । तत्त्वतस्तु गर्भगृहगतस्याप्याद्याभिलाषो नाभिलाषमन्तरेति ध्रुवैव जन्मान्तरसिद्धिः । नन्वस्तु विशेपव्याप्तिः, परं. कथं विलयाहाराद्यभिलाषस्य प्रथमताऽऽख्यायते इति चेत , इहत्याफेक्ष्यैव इत्येतदेवाहुः
सो वि ण एगंतेणं इहाणुभूयाभिलासपूवो उ। जमणादौ संसारे तं णस्थि जतं ण अणुभूयं ।।११८।। ननु च कथमप्राप्तपूर्वसज्ञिभवस्य विलयाभिलाषः, यतो नपुंसका एवासझिनो 'नारकसम्मूछिनो नपुंसकानि' इतिवचनप्रामाण्यात् ‘शेषाणां सम्मूर्छन' मितिवच. नाच्च स्पष्टमेव एकेन्द्रियविकलादीनां नपुंसकताऽसज्ञिनामिति । सत्यं, परमविचारितम् , नहि नपुंसकानां न विलयाभिलाषो, द्वभिलाषस्यैव तथात्वात् 'पुरिसिस्थितदुभयं पइ अहिलासो जव्वसा हवइ सो उथीणरणपुंदेओदओ' इति स्पष्टतमभणितिसद्भावाद् । अत एवं चाभिलाषपर्यन्तानुधावनमाचार्याणामिति । तथा चाऽवाच्येव-' तं मन्थी 'त्यादि । अन्यदपि प्रतिपादयन्त्यनुमान स्वाभाविकम् -
इय पढमं विनाणं विष्णाणंतरसमुभवं णेयं । वित्राणत्ताओ च्चिय जुवविन्नाणं व बालस्स ।।११९।। अत्र विज्ञानस्यात्मस्वभावत्वं स्पष्टमेव । अन्तर्व्याप्तिश्चात्र न विशेषज्ञानोपलम्भो विना क्षयोपशमं, मर्वजघन्यज्ञानस्याननुभवान सूक्ष्मैकेन्द्रियापर्याप्नानां प्रथमसमयभा..
For Private And Personal Use Only