________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
नाशः , उत्पादो वाऽसतो, दीपादीनामपि धूमाद्यास्तम आद्याश्च पर्याया एव, घटस्य कपालयुग्मवत् ।
बालाइपज्जयाओ जुवाइ जइ होइ पज्जवो इहयं । एवं मणुस्सभावा सुरभावो होइ परलोगो ॥९९॥ मनुष्यत्वस्थितिमपेक्ष्य परेण यथा बालादिपर्यायाद् यौवनादिपर्यायोत्पादः स्वीकृतः तथा जीवस्थितिमपेक्ष्य मनुष्यपर्यायात् देवत्वादिपर्यायोत्पादः । प्रत्यक्षस्वादुपदेश्यत्वाच्च मनुष्यत्वग्रहणम् । सुरभाव इत्युपलक्षणं चैत. न्नारकादेः । सुरग्रहणं तु ज्योतिष्काणामध्यक्षतया अल्पकष्टेन स्वीकारकारणसम्भवात् । तथा चाऽध्यक्षानुभूयमानलोकादन्यानां परलोकतेति पारिशेष्यादात्मनः परलोकगामितासिद्धिः । सतः सर्वथा विनाशविलयादित्यस्य पूर्व साधितत्वात् चैतन्यविशिष्टकायस्य यत प्रतिषेधकत्वमाम्नातमाम्नायशून्येन, तन्निराचिकीर्षव आहुः___ण य पडिसेहो वि इहं कप्पइ चेयण्णसंगए काए । तस्सेवाभावाओ ण कायमेत्ते य सो दिट्ठो ।।१००॥ चैतन्यसङ्गतकाये आत्मो नास्तीति प्रतिषेधनं न युज्यते, कथं ?। चेत् चैतन्यस्यैव तावदात्मानमन्तराऽभावात् । कायमानं चेत् प्रतिषेत्स्यति, तदाहुःनासौ दृष्टः प्रतिषेधः कायमात्रे-चैतन्यशून्ये कलेवरे । चकारः केवलस्यात्मनोऽपि निषेद्धत्वाभावद्योतनाय । नहि कर्त्तापि विनेतरकारणमारभते कार्यम् । न चैतावता न स कर्ता, न वा तस्याऽसद्भावः । एवमात्मनोऽपि प्रतिषेधवचनोच्चारेऽवश्यं शरीरादीनि कारणानीति न केवलस्य तस्योच्चारादि । तथा च सत्यमेव न्यगादि कलिकालसर्वज्ञैः श्रीमद्धेमचन्द्रसूरिभिः चौलुक्यचूडामणिचूडामणिचन्द्रार्चितचरणैः
For Private And Personal Use Only