________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१
लोकविंशिका
च तथ्यज्ञानज्ञेयत्वाद् भूतानां स्वीकृतिरसङ्गतत्वे सत्यप्यदुष्टा, तथाssगमानामपि सत्यप्यसङ्गतत्वे यथार्थतया तत्प्रतिपादितानां किमिति न स्वीक्रियते प्रामाण्यम् ? । तच्च ' आप्तोपज्ञमनुल्लध्यमहविरो. धकम् । तत्त्वग्राहितयोत्पन्नमानं शाब्दं प्रकीर्तित' मितिलक्षणलक्षितस्यैवेति न सत्यासत्यनिर्णये व्यामोहः कश्चनापि । स्पष्टैव च बीतरागस्य वचनानां तथतेति । तस्य च तथात्वं मूर्त्याऽऽगमादिना प्रत्यक्षाविरोधस्याप्यादिना ग्रहान्नान्योन्याश्रयता । उपमानेन च यद्यपि प्रचण्डवातादिकमन्तरा किश्चित्तथाकम्पमानं दृष्ट्वा उपमीयते, यन्त्रादिकेन वा क्रियमाणं तथाविधं दृष्ट्वोच्यते-चेष्टत इदं जीववानिक इति निश्चीयते जीवसत्ता, शशश्रृङ्गादीनामसतामुपमानत्वाभावात् । तथापि तस्य प्रमाणान्तरत्वाभावात् न तदिहोपापादि सूरिभिः । शङ्कादयोऽपि जीवस्य साधका एवार्थापत्त्या, परं तेऽपि नाऽत्रोपन्यस्ताः, पूर्वोक्तादेव हेतोः । मृतोऽयं, नाऽत्र जीव इत्याद्या व्यवहारा अपि तथ्याः साधका एव जीवसत्तायाः, परं पूर्वप्रकान्तवादोपगममूला एते इति नाऽत्र प्रस्तुताः प्रभुभिः ।।
.. जो पडिसेहेइ तहा स एव जीवोत्ति जुत्तमेयंपि । भूएहिं चेयणं अण्णनिमित्तं जओ ठवियं ॥९७॥ यतश्चैतन्यवद् विहितो निषेधः , तच्च भूतेभ्यो परो य आत्मा तदुपादानमेवेति प्राक स्थापितमेवेति । प्रसङ्गात परलोकगामित्वमप्युपपादयन्त, आहुः
संतस्स पत्थि पासो एगतेणं ह यावि उप्पाओ। अत्थि असं.. तस्स तओ एसो परलोगगामि त्ति ॥९८॥ नोपादानं विरय्य कार्य किञ्चित् उत्पद्यते इति हि प्रमाणसिद्धः पन्था इति, नो सनः सर्वथा
For Private And Personal Use Only