________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
अरस य पमाणभावं माणंतरयं च उवरिमो वोच्छं ( उबरि चाच्छामि ) णासंगतमेत्तेणं वाइणं वत्थुणोऽभावो ।।९५|| यथार्थज्ञानोत्पादकत्वेन प्रामाण्यमागमस्याप्तवचनस्य उपचारात् , तत्त्वतस्तु तदुत्पन्नज्ञानस्येति ज्ञेयम् । व्याप्तिमूलकप्रामाण्याभावाद् वक्तृप्रामाण्यमूलक एव च प्रामाण्यादागमस्य भिन्नता अनुमानादिति । सङ्गमनमेकत्रीभावः सङ्गतिः सा अस्मिन्नस्तीति सङ्गतम् । 'पीता गावो विभक्ता वान्धवा' इत्यादिवदभ्रादित्वाद् अप्रत्यये 'अवर्णे वर्णस्य ' इतीकारलोपे तदभावोऽसङ्गतं तदेवासङ्गतमात्रं सर्ववाद्यैकमत्याभावमात्रं तेन, मात्र प्रत्ययेन यथार्थत्वलक्षणं प्रामाण्यकारणसद्भावब्यवस्थितिमाहुः । यद्वा-सङ्गमनं सङ्गतं क्लीवे भावे क्त इति तदभावोऽसङ्गतं, तन्मात्रेण एकमत्याभावमात्रणेति । तथा सति भूतानामप्यभावप्रसक्तेः, यसो नाभ्युपगम्यन्ते ज्ञानाद्वैतवादिभिः तान्यपि । यद्वा-प्रकृतेमहान , महतोऽहङ्कारः, तस्माद्गणश्च षोडशकः, तस्मादपि षोडशकात् पञ्चभ्यो पञ्च भूतानीति । तथा एतस्मादात्मन आकाशः सम्भूतः, आकाशाद् वायुः, वायोरमिरग्नेरापः , अद्भयः पृथिवीत्यादि किं न स्वीकृतं कैश्चिद् भूतानामादिमत्त्वम् ? । तथा च भूतानि तेषां शाश्वतत्वं नैव स्वीकार्य भवता, न चैवं क्रियते यथार्थवा च गीयते तत्स्वीकरणे प्रमाणभूमिः, सा च चेदवाक्षता कि नाङ्गीकार्य प्रामाण्यं, न्यायस्य समानत्वादिति । शून्यवादिनश्च न चैतन्यापावपि सङ्गतेति न तावन्मात्रेणरेच्छेदनीयं सर्व दर्शयन्तः सवमेतदाहुः
पण य संगयापवादी भूएसु वि (पू०) अह य ताई विजंति । जंति य (आ.) एवं चिय आगमपक्खेवि को दोसो ॥९६॥ यथा
For Private And Personal Use Only