________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
तुल्लाणमिति लक्षणयुक्तानां, तथा च लक्षणयुक्तम्य व्यभिचारे तल्लमणमेव दूषितं स्यादिति तत्पुत्रत्वहेतुसाध्यमानश्यामत्वाद्यनुमानानां व्यभिचाराद् दुष्टत्वादध्यक्षादिना बाधादित्यर्थः । प्रत्यक्षं मम्मरीचिकायामवभासमान जलमिदमित्यात्मकं, काचकामलादिदोषरहितत्वे नात्रापि लक्षणलक्षितत्वं विद्यत एवेति गम्यम् । विशेषभावश्च व्यभिचारित्वात् प्रमेयस्य तत्र । यद्वा-कापि व्यभिचारि प्रत्यक्ष न भवति । यच व्यमिचारि तदिन्द्रियादिदोषोद्भवमिति नैतावता प्रत्यक्ष स्याप्रामाण्यता अन्यतम-प्रत्यक्षव्यभिचारेऽपि इतरेषु-प्रत्यक्षभिन्नषु, अनुमानेष्विति वाच्ये यदितरेष्विति जगुराचार्याः तदितरेषामपि स्मृत्यादीनां प्रसङ्गतोऽव्यभिचारित्वेन प्रामाण्योपदर्शनायेति केचित् । तथा च प्रत्यक्षवद् दोषरहितं यतोऽनुमानादि, प्रमाणं च ततस्तत् ।
किं च पडिसेहगं तं (पू०) अणुमाणं अह भवे अणुवलद्धी। आ-पच्चक्वणुमाणेहिं भणियमिहं गणु पबंधेणं ।।९३।। तत्प्रतिपेधकमनुमानप्रामाण्यस्येति गम्यते । सर्वं च शेषमात्मप्रतिषेधकेन तुल्यवाच्यमिति — भणियमिहं 'ति व्याजहः पूज्याः । केचित्त्वात्मनः प्रतिषेधः क्रियमाणो नाऽप्रमाय, प्रमिते च किं तदित्यभिप्रेत्य प्रत्यक्षस्य पूर्व निरुक्तत्वादाहुरनुमानं वादी चेद् ब्रूयाद प्रमाणं तत्तस्य नेत्यनुपलब्धिमेव वक्ति, सा च पूर्वप्रतिपादितरीत्या नैवोदयमाप्नोतीति निरुत्तरयति वादिनमित्याहुः ।
आगमतो चिय सिद्धो जं उबओगादिलक्खणो जीवो । आहिंडइ संसारं सुच्चइ सव्वण्णुवयणमि ॥९४॥ अप्रामाण्यमापादितमस्य वादिना तदुद्धर्तुमाहुः प्रकरणाच्चानुमानभिन्नत्वम ।
For Private And Personal Use Only