________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
णिच्छ यओ पुण एत्थं पडिवत्ती चेव होइ माणं तु । तीए दाह वि भावे ण तं पमाणं ति वामोहो ॥९१।। निश्चयतः-अनुपचारेण मुख्यया वृत्त्येति यावत । 'अत्र' प्रमाणस्वरूपविचारे, 'पडिवत्ती चेव'त्ति । प्रतिपत्तिरेव-ज्ञानमेव, 'माणं 'ति प्रमाणशब्दप्रतिपाद्यम् । एवकारेण इन्द्रियाऽऽलोकार्थेन्द्रियार्थसन्निकर्षादीनां प्रतिक्षिप्यते, तेषामक्रिया भेदकत्वाभावेन साधकतमत्वाभावात् केषाञ्चित् केषाञ्चिदर्थसन्निकर्षादीनां पूर्वमज्ञातत्वात् , तारतम्यं च तत्त्वतो ग्रहणशक्तिविहितं उपयोगविहितं वेति । परमार्थतस्तु स्वनिश्चितावकरणस्य परनिश्चायकत्वानुपपत्तेः ज्ञानमेव प्रमाणं, तस्यैव स्वपरावभासित्वात् । फलं तु उपादानोपेक्षणादि परिणतिरज्ञाननिवृत्तिर्वा । आलोचनं त्वर्थग्रहणं विना भाव्येवेति । निर्विकल्पम्य प्रमाणता उत्तरस्य च फलता विशेषणम्य प्रमाणता विशेष्यज्ञानम्य च फलताऽप्येवमेवानुपादेया । विषयनानात्व च प्रतिकूलमेव । तत्राभिन्नत्वे च द्वयोरेकतरवैयर्थ्य स्पष्टमेव । प्रमेयसारूप्यं प्रमाणमिति त्वमूर्तस्य ज्ञानस्य प्रतिबिम्बाग्राहित्वादपकर्णनीयमेव, मूर्तस्यैव तथापरिणतेः . विप्रकृष्टविषयाणामनुमानादीनां च कथङ्कारं सारूप्यम् । तस्य विषयस्य प्रामाण्यमुपचारादित्युक्तं तदाश्रित्योदाहरति तस्यां प्रतिपत्तावित्यर्थः । द्वयोः ज्ञानविषयलक्षणयोः सद्भावे । विषयस्य ज्ञानजनकत्वात् तस्याप्युपचारतः प्रामाण्यम् । सर्वथाऽप्रामाण्यं चोच्यमानं व्यामोह एव, तस्य प्रतिपत्तिनिमित्तत्वात।
पू.-तुल्लाणं वभिचारा तमप्पमाणंति (आ) किं न पच्चक्खं । पृ०-तेसिं विसेसभावा (आ०) इयरेस वि किं न सो अस्थि ।।१२।।
For Private And Personal Use Only