________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
आ० - विणिवायकरणसत्ती सम्भावे जुज्जई तओ णियमा । इय पडिवत्तिनिमित्तं च होइ कहमप्पमाणं तं ॥ ८९ ॥ यद्यपि लभ्यते जयोऽङ्गीकर्तॄणामनुमानप्रामाण्यं न भवेदेवं परं वस्तुप्रतिष्ठा तु वैतावता सिद्धयति । सा तु सत्यामेव शक्तौ तस्य यथार्थप्रमातृत्व लक्षणायां न चाभ्युपगता त्वया सेत्युक्तं- ' विनिवाये 'त्यादि । अन्यच्च - अप्रमाणभूतमनुमानं चेत् कथं ततो भवित्री यथार्थार्थप्रतिपत्तिः न च युक्तमनृतं प्रज्ञापयितुमहध्वपान्धानाम् । सति चानुमानम्य प्रतिपत्तिसामर्थ्ये कथमप्रामाण्यं तस्य, प्रतिपत्तिनिमित्तस्यैव प्रमाणत्वव्यवहारात् । आत्मनिषेधमनुमायैवानुमानेन प्रतिपादयेत् परमिति प्रतिपत्तिनिमित्तमनुमानम् । ततस्तु प्रत्यक्षेणासिद्धे चेतनाया भूतस्वभावत्वे तम्या भूतधर्मतावगमः स्वम्याप्यनुमानेनैवेति ज्ञेयम् ।
,
"
पू० - जइ पडिवत्तिनिमित्तं सव्वं माणंति हंत विसओ वि । पावई पमाणमेवं (आ० ) इच्छिज्जइ सोवयारेण || ९ || विषयस्यापि प्रतिपत्तिनिमित्तत्वात् । यद्यपि विनापि विषयं भवत्येव प्रतिपत्तिरतीतानागतानामर्थानाम्, अन्यथा प्रतिपत्तुमशक्यत्वापत्तेः । प्रतिपद्यन्ते च ते योग्यादिभिरतीन्द्रियार्थवेदिभिः परं नेतन्नास्तिकाभिमतम् । यद्वा-विषयसत्तासिद्धिरस्त्येव तज्ज्ञान इत्येव वर्तमानताज्ञानहेतुः विषयस्य विषयसत्तैवेति विषयस्यापि प्रामाण्यप्रसञ्जनम् । उपचारश्चात्र कारणे कार्योपचार इति । प्रमीयते अनेन प्रमाणमित्यत्र सर्वस्यापि साधकतमानां सङग्रहात । यद्वा-कर्मण्यनटि तस्यापि प्रमाणताऽ व्याहतैव ।
For Private And Personal Use Only