________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
'धर्माऽधर्मों विना नाङ्गं विनाऽङ्गेन मुखं कुतः । मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ।।१।। इति ।
एत्तो चिय नाभावो दाणादिफलम्स मणप्पसायादी । इहलोगम्भि वि दिट्ठा परलोगे किं न जुत्तत्ति ।।१०१।। इत आत्मनः तस्य परलोकगामित्वस्य च सिद्धरेव, सिद्धे धर्मिण्येव तद्धर्मचिन्तनस्य तत्सत्तायाश्च न्यायप्राप्तत्वात् । दृष्टफलकत्वेन तस्याऽदृष्टाफलकत्वमिति ब्रूयात् चेत् परः, तत्रोभयफलतामाश्रित्योचुः-' इहलोक ' इत्यादि । एवमनङ्गीकारे सुरभावादीनां प्रमाणसिद्धानामप्याकस्मिकत्वापत्तेः , निर्हेतुकत्वे च नित्यं सत्त्वासत्त्वापत्तेश्च । फलं च यन्मनःप्रसादादि जेगीयते परेण तदपि तत्त्वतः क्रियात्मकमिति भाव्यं तत्फलेनापि ।
ननु भवतु मनःप्रसादादेः सुरलोकादिफलं ‘अभ्यर्चनादरुहतां मनःप्रसादस्ततः समाधिश्च ' इत्यादिवत्, परं दानं त्वन्यथासिद्धमेव, घटं प्रति कुम्भकारजनकस्येवेति चेत् । अन्यथासिद्धयज्ञानोद्गीर्णमेवैतत् , मनःप्रसादादीनां द्वारत्वात् । नहि भवति घ८ प्रति दण्डस्यान्यथासिद्धता दण्डत्वस्येव । प्रमाणमुपन्यस्यन्ति
किरियाफलभावाओ दाणादीणं फलं किसीप अ । पूछ-तं दिठं चेव मती जस-कित्ती लाभमादीयं ॥१०२।। इहरा य किसीएवि हु पावइ अदिट्टमेव (आ०) तं पत्थि । तस्स परिणामरूवं सुहदुक्खफलं जओ भुज्जो ।।१०३।। दानादिफलवत प्रयोगिक्रियात्वात् कृषिषत् ' तदनन्तरमूर्ध्वं गच्छत्याऽऽलोकान्ताद् ' [तत्त्वार्थ०] इति वचनात् परमाणोश्च समयेनैकेनापि लोकान्तगमनशक्तियुक्तत्वातक्रियाणां चाइएफलत्वाभावात् प्रयोगीति । तत्र न ते प्रयोगिन
For Private And Personal Use Only