________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतो मरुद्गुर्जरमेदपाटसौराष्ट्रकच्छादिकदेशवास्याः । तत्राधुना श्राद्धजनाः वसंति सम्मेतशैलादिविभूषिते हि ॥१५॥ ग्रामानुग्राम विहरन्नथैकदा शिष्यप्रशिष्यादिगणैर्निजैः समं । संम्मेतशैलादिकतीर्थयात्रया पवित्रयन् जन्म निजं विशारदः॥१६॥ संबोधयन् भव्यजनान् विकाशयन् सर्वत्रधर्म जिनजल्पितं वरम् । विमदर्यन् वादिगणानगात् क्रमात् काशी पुरीं श्रीकुशलेन्दुपाठकः ॥
रामघाटे समागत्य यतिधृन्दसमन्वितः । कुशलचन्द्र सुरोराट् वरेण्यगुणवारिधिः ॥ १८ ॥
काशीवर्णनम्
वैदिकधर्मिणां सा च गंगानदी तटस्थिताः। परमा-तीर्थभूतास्ति पूर्वदेशविभूषिका ॥ १९ ॥ जन्ममरणसंस्कारदानस्नानादिकाक्रियाः । क्रियन्ते तत्र तैः सर्वैः सद्गतेरभिलाषया ॥२०॥ तस्यां गवेषमाणोऽपि कुशलचंद्र पाठकः। ... स्थानं सर्वत्र न प्राप यतियोग्यं च कुत्रचित् ॥ २१ ॥ तैश्च विचारितं हं हो ! यत्र पार्श्वजिनेशितः । अजनि जन्म दीक्षादि कल्याणकं शुभप्रदम् ।। २२ ।।
For Private And Personal Use Only