________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाचंयमः शमदमादिगुणौधधर्ता धर्मादिकृत्यकुशलः कुशली जनानाम् । विद्वत्तमः कुशलचन्द्रगणिस्तदीय शिष्यो यतिप्रवरपाठकमुख्यदान्तः॥७॥
श्रेयांसचन्द्रप्रभपार्श्वनाथसुपार्श्वकल्याणकपूतभूमौ । शरीरभूसंख्यक(१६)तीर्थजीर्णोद्धाराणि योऽचीकरदार्यपूज्यः ॥८॥ योऽकारयद् कौशलदेशसंस्थ खेटेन्दु(१९)कल्याणकसद्सायां। . आधादितीर्थकरनष्टतीर्थोद्धाराणि सद्देशनया च भूयः ॥९॥ पूर्वदेशवर्णनम्यत्राहतां तीर्थकृतां च जन्म दीक्षादिकल्याणकपूतभूमिः। यस्य प्रदेशोऽपि पवित्रोऽस्ति नरोत्तमाईद्गणभृद्विहारैः ॥१०॥ संवेग-निर्वेद-शास्तिकादिगुणोधभृत्तत्वविदो वरिष्ठाः । यत्राभवन्नार्हतधर्मनिष्ठा अनेकशः श्राद्धजनाश्च दक्षाः ॥११॥ आसन् गुरोर्देशनया प्रबुद्धाः यत्रैधमानोच्चवरेण्यभावात् । सहस्रशो भव्यजनान् विहाय गृहादिकं दीक्षितजायमानाः १.१२॥ आहत्यश्रीसाधुसंपात्तधर्मनिष्ठश्राद्धौधेन यत्राजनिष्ट । केन्द्रस्थानं सद्गरिष्ठं शरीरीकारुण्याद्युत्कृष्टसत्कृत्यजुष्ठं ॥१३॥ पूर्वीयदेशेषु च तेषु सर्वेतद्वासिजैनाः भवितव्ययोगात् । शनैः शनैजैनवृषं विहाय विधर्मिकाभक्ष्यभुजो बभूवुः ॥१४॥
For Private And Personal Use Only