________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"पूज्य गुरुदेव"
"श्रीकुशलचंद्रसूरिपट्टप्रशस्तिः "
श्रीचिन्तामणिपार्श्वनाथमनिशं श्रीरामघाटस्थितम् काश्यां नौमि जिनार्तिसंकटहरं सार्वीयलक्ष्मीयुतम् । आधिव्याधिहरं भवोदधिकषं भव्यांगिसंपद्प्रदम् योगीन्द्रनमितैर्नतं धरणिराट् पद्मावती सेवितं ।। १ ।। सरदामां शारदां स्तौमि संततं सुविचक्षणां । नित्यं नवेन्दुनिर्नाम नौमि नेत्रामृतां नवां ॥ २ ॥ पूर्णप्रेमाङ्कितं पार्श्व पापाब्धिपारगं प्रभुं ।
प्रमोदेन प्रणीपत्य प्रस्तवीमि परंपराम् ॥ ३ ॥ सूरीश्वराणां महनीयमुख्यो समस्तशास्त्रांबुधिसंचरिष्णुः । नमामि नित्यं निरवद्यनेमिचन्द्रं सुरीन्द्रं किल सद्गुरुं मुदा ॥४॥ वीरादखंडितवदान्यपरंपरायां संजातपंडितजिनेश्वरसूरिराजात् । जाते वरे सुविहिते विधिमार्गवाचि गणेऽभवत् खरतरे जिनलाभमूरिधा५।। तस्याभवत् प्रवरपाठकहीरधर्म शिष्यो दमी स्वपरशास्त्ररहस्यवेत्ता । चक्रे लसन्नवपदात्मकसिद्धचक्रादेश्चैत्यवंदनस्तुतिस्तवनानि येन ॥६॥
For Private And Personal Use Only