________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६ ) माधुर्यपूरितमबाधितमप्यतुच्छं
संप्रोचुषोऽत्रभवतः श्रमणेश्वरस्य । वचः स्यान् मृषावचनदूषणसंप्रवेशः
संभावना स्वदहितग्रहणे कुतस्त्या ॥१८७॥ गांभीर्यमद्भुतमुपेतवतः समस्त
कर्मक्षयात्मशिवसंपदऽवेप्सयैव ।। सम्यक् क्रियां विदधतो गुरुवाक्य आस्ते
धर्मश्चकासदितिधारयतश्च चित्ते ॥१८८॥ स्वच्छप्रसादकिरणानतहर्षवर्षों
वक्त्रेन्दुरक्षिपदवीविनिपातमात्रात् । पापं क्षिणोति चिनुते च शरीरभाजां श्रेयो विवर्त्यभिमतं च किमत्र वाच्यं ॥१८६॥
(त्रिभिर्विशेषकम् ) इत्थं युतो गुणयुतो विभवोन्मुखोऽयं ।
सूरीश्वरो समनिकेतन साधकोऽत्र । संचिन्तयन् निजहदि प्रभुपार्श्वनाथं ।
काश्यां समागतवतो हितकारको हि ॥१६॥ पूर्व प्रेमप्रपूरेण विश्वविश्वोपकारकं । पार्श्वनाथं जगन्नाथं प्रणेमुरेव मस्तकात् ॥१९१॥
For Private And Personal Use Only