________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २७ ) अद्य प्रभातं समभूत् सुमंगलं
महोदयो वासर एष मे पुनः । सौभाग्यसिन्धुर्नियमादयं क्षणो
जातोऽद्य कल्याणतरुः सुपल्लवः ॥१९२।। अभूदहोकामगवी च सम्मुखा
शये शयालुः किल कल्पवल्लगे। किमेभिराप्तैरथवानुषंगिकः
प्रयोजनैर्जन्म विधृद्धिहेतुमिः ॥१९३।। प्राप्तो ध्रुवं मुक्तिविवाह मङ्गला
ऽऽलयो मयाल्पेतर पुण्यढौकितः । लोकेऽधुना शारदपूर्णचन्द्रमाः
सहोदरं सन्मुखमेतदर्हतः ॥१९४॥ तुभ्यं देव नमोऽहते भगवते विश्वत्रयीस्वामिने
सर्वज्ञाय जगद्धिताय पुरुषश्रेष्ठाय भूमानवे । लोकोद्योतकृतेऽभयं प्रददते स्याद्वादिने ब्रह्मणे
मुक्त्यादिकराय तीर्थपतये कारुण्यपाथोधये ॥१९५॥ नियामकाय परमाय भवांबुराशौ
रागादिरोगसमकर्मभिषगवराय ।
For Private And Personal Use Only