________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २० ) एवमुक्तवति सम्यग् जाताद्भुत विगर्जना । वृष्टिर्जाता बहुला हो ! लोकाः सर्वे प्रशंसिरे ॥१४९।। धन्याः जैना जैनोधर्मो धन्यो विश्वोपकारकः । गुरवस्तेषु धर्मेषु एतादृशाश्चकाशिरे ॥१५०॥ अधर्मशोषणे ख्यातो वालचंद्रसूरीश्वरः । तिग्मांशुरिव विश्वेस्मिन् चित्रं तत्र विभाव्यते ॥१५॥ एवंविधानि हि व्यतिकराणि संजातकानि विविधानि यानि । तानि च सर्वाणि मनोहराणि धर्मार्थकार्याणि प्रचारणाय ॥१५२॥ एवंविधाश्च वृत्तान्ताः सूरीणां बहवोऽभवन् । प्रान्ते तेऽनशनं कृत्वा दिनत्रयं समाधिना ॥१५३॥ काश्यांकरांगखेटेन्दु वत्सरे (१९६२) चाश्विने सिते । एकादशी तिथिं प्राप्य पूज्याः सुरालयं गताः ॥१५४॥ सारां नमस्कृति स्मारं वारं वारं सुरीश्वराः। धाम्नि स्वलोक संप्राप्ता बालचंद्रसूरीश्वराः ॥१५५।।
श्रीबालचन्द्रसूरिसमये आचार्य श्रीवालचन्द्र यतिवर समये श्रावकोभव्यवर्गः। धन्यो मान्यो यशस्वी प्रथित सुयशसा नाम तेषां क्रमेण ॥१५६॥ लक्ष्मी निहाल गोपाल शिखरचन्द्रोत्तरा अमी। गखेचा रायसुराणा धम्मावत नाहटाः ।
For Private And Personal Use Only