________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगादैवं गुरुं तत्र कुशलसूरीन्द्रं प्रति । प्रतिपक्षो क्षमो ह्यत्र नाभवत् भवतां प्रति ॥ ६२ ॥ तदा गुरुर्जगादैवं कुशलसूरीन्द्रो मुदा। स्वयमेव करिष्येहं पक्षं प्रतिपक्षं ह्यथो । ६३ ।। अधोधरे कृतवानत्र सिन्दूरबिन्दुकं तदा । वादं प्रचक्रमे पश्चात् प्रतिवादं स्वयं सुधीः ॥ ६४ ।। सार्धद्वयघटिका तु जाते प्रतिपक्षपक्षान्ते ।
विजयोऽनेकांतस्य जातो विद्वसंसदि तत्र ॥ ६५ । नेमुः सर्वे पंडितानां वरेण्याः श्रीमत्पादौ प्रेमपूरेण सम्यक् । धर्मलाभो भो! भवंतु भवेऽस्मिन् आशीर्वादो विश्वविश्वस्तकोयं॥६६॥ एवं सम्मानयित्वा विविधगुणयुतैस्तार्किका शाब्दिकाश्च साधं श्रीरामघाटे समरसनिभृतः सूरिराडाजगाम । कंदर्पाभः सूरीन्द्रः प्रवरगुणगणैः गीयमानोऽवतिष्ठन् धर्मध्यानादिशक्तो यतिगणवृषभैः सेव्यमानो विशुद्धैः ।।६७॥ अत्रांतरे काशीनृपोपरि मुदा नेपालदेशाधीश्वरेण प्रेषितः । लेखः शिलायां परिकर्मितोमहत्तं वाचयितुं विविधाशयान्वितः ॥६८।। शक्ता भवेरन्नहि केऽपि पंडिताः परस्परालोकनतत्पराद्भुताः। ततः सरिराजसमीपप्रेषितो यथावदातं कथितं महात्मना ॥६९।।
For Private And Personal Use Only