________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोयं ब्रह्मा वास्ति किं देववाणी किंवा विष्णुः पार्वतीशो महात्मा। किंवा सूर्यो वा निशानाथ एव किंवा कामो विश्ववृन्दारकोऽयं ॥५५।।
ब्रह्मा नैव न देवबोधि परमो नारायणो नैव हा ! शंभुनैव न भानु भासुरमणिर्नायं निशानाथ नु । कामो नैव मनोहरो नहि जिनो देवो न तु तात्विकः हं हो ! ज्ञातमहो विकल्परहितः सूरीश्वरोऽयं महान् ॥५६॥ ध्यात्वैवं बहुपंडिता खरतरा म्लानानना निश्चिताः वादीन्द्रं प्रतिकूर्महे कथमहो वादं विवादं ह हा ! । ब्रह्माशंकर वासुदेवप्रमुखा रक्षंतु ह्यस्मानहो । नोचेत्कारणकार्ययोर्बहुविधं विघ्नं ह्यवश्यं सदा ॥५७ ॥ एवं हृदि सर्वविचार्यमाणाः परस्परं तर्कवितर्कमाजः । तदेश्वरीनाथ समूचिवान् भो कुर्वन्तुवादं ह्यथ पंडितास्तु ॥५८॥ अध्यक्षः काष्ठजिह्वो हि जातः पंडितसंसदि । वादी विरेजिरे तत्र खद्योतामासुभास्वरम् ।। ५९ ॥ शरदाभा शारदा सास्तु पलायितुं प्रचक्रमे । महता परिश्रमेणैव रुद्धा केनापि वादिना ॥ ६० ॥ एतस्मिन् समये काष्ठजिह्वो जगाद जल्प्यताम् । संमुखीभूय कोप्यत्र शास्त्रार्थ कुरुतां सताम् ॥ ६१ ॥
For Private And Personal Use Only