________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
144
॥ वेदार्थदीपिका ॥
९. अथ नवमं मंडलमधिकृत्य परिभाषते । नवमं मंडलं पावमानं सौम्यं । वक्ष्यमाणं नवमं मंडलं सोमदेवायं । स च सोमः पवमानगुणः। पावमानमिति विशेपणस्य पृथक्करणं वचिसोमापवादभूताग्न्यादेरपि पवमानगुणत्वार्थे । तथा च लिंगं सूक्तेऽग्नेः पवमानस्य । अग्न आयूंपि पवसे उग्ने पवस्वेति हे दृष्टे । मंडलमित्यसत्यपवादेऽत्र सौम्यत्वाय । नवममिति द्वितीयादिवद्विस्पष्टार्थमेव ॥
५. असितो नाम काश्यपो गोत्रतः । अथवा देवलो नाम सोऽपि काश्यपः । भवति हि प्रवरः काश्यपासितदैवलेति । विंशतिः सूक्तानि । इदमादीन्यपश्यदिति वाक्यशेषः । अत्राद्यमिदमेकादशर्च सूक्तमाप्रियं । भानिदेवताः समिद्धादिखाहाकृत्यंता देवताः । अत्र तनूनपाद्वितीयो न तु नराशंस आणमित्यनुक्तेः।
नवमे मंडलेऽनुक्तेरासां न पवमानता । इहातिदिष्टा अन्यत्र व्युत्पन्ना:11 सविशेपणा:12 ॥१॥ ननु विंशतिः सूक्तानीत्यवाच्यमनुवृत्तितः ।
न" मधुच्छंदसा ह्यादौ दशसूक्तग्रहः कृतः ॥२॥ सत्यं । असितस्यानुवृत्तिः स्याद्वान्वयाद्देवलस्य न ।
इत्पषिद्वययोगार्थ विंशतिग्रहणं कृतं ॥३॥ तर्हि विंशतिः सूक्तानीत्यनुक्ता प्राग् दृढच्युतात् ।
इति वाच्यं लाघवार्थमिति चेत पृच्छ तं मुनिं ॥४॥ २४. असितदेवलयोः काश्यपयोः पूर्णोऽवधिः॥ ६०. तृतीयेति न तु प्रोक्तं लाघवादागुणोक्तितः ॥ ६५. भृगुनीम वारुणिवरुणपुत्रः। श्रूयते हि । तस्मात्स भृगुवारुणिरिति' भृगु वारुणिरिति श्रुत्यंतरं । तेन वरुणगोत्रो" भृगुवा जमदग्निर्वेति नैव शंका ॥ ६६. वैखानसा अपयः शतं संभूयेदं सूक्तमपश्यन् ।।
1 सूत्रे MSS. 2 Rige. IX, 66, 19. 3 Ibid. ver. 21. WH; ति दृष्टे PI, P2, 12; ति दृष्टं I 4. FWI; काश्यपगोत्र: the rest. WI; देवलनामापि the rest. 7 काश्यपासितो दैवलेति WI; काश्यपोसितो देवलो वेति P2, I 2, I 4; काश्यपोऽसितो देवलेति P1. सूक्तान्यपश्यदिति शेष: WI. See Asr. Sr..shtra, XII, x, 8; M. M., A.S. L., p. 385 WI, P2,12; आप्रियः 14 आध्यः P1. 10 W1B इह चिदिष्टा PI, I 4; इह चिदृष्टा P2, I 2. 11 अन्यत्रोत्पन्नाः WI. 12 W I only. 13 W1;
नीति वाच्यं the rest. 14 न in P I only. 1 WI, I 4; °सो P1; °दो P2, I 2. 16 Pan. VI, i, 87. IT Ait. Br. III, xxxiv, I. 18 WI, PI, [ 4; श्रूयते P2, I 2; Sat. Br. XI, vi, I, I (where the reading is भृगुर्ह वै). 19 WI, I 4; °गोत्रे PI, P2, I 2.
For Private And Personal Use Only