________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
II3
भरद्वाजः कश्यपो गोतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।
यश्चोदितो भास्करोऽभूाप्रतिष्ठः सोऽप्यत्रात्रिभगवान संबभूव ॥ इति । नमस्कार एवापानुक्रमण्यां प्रयुक्तः । नमोऽत्रिभ्यस्त्वबोधीति । अत्रशब्दयोगादत्रिनामेति बृहदेषताविदः । तथा हि।
विसांवत्सरिकं सत्रं प्रजाकामः प्रजापतिः ।
हरासहितः साध्यविश्वैश्चैवेति नः श्रुतं ॥१॥ तत्र वाग्दीक्षणीयायामाजगाम शरीरिणी। तां दृष्ट्वा युगपत्तत्र कस्याथ वरुणस्य च ॥२॥ शुक्रं चस्कंद तद्वायुरग्नौ प्रास्यद्यदृच्छया। ततोऽर्चिभ्यो' भृगुर्जज्ञेगारेष्वंगिरा ऋषिः ॥३॥ प्रजापति सुतौ दृष्ट्वा तुष्टा' वागभ्यभाषत । श्राभ्यामृषिस्तृतीयोऽपि भवत्वत्रैव मे सुतः ॥४॥ प्रजापतिस्तथेत्याह भाषमाणां तु भारतीं।
ऋपिरत्रिस्ततो जज्ञे सूर्यानलसमद्युतिः ॥५॥ इति । अत्रशब्दोऽस्यास्तीत्यत्रिः । पृषोदरादित्वाद अत इनि नलोपे10 चात्रिः । अयात्रे!त्रमाह । भौमो त्रिः । भूम्या अति निर्दिष्टे प्रदेशे जात एप हि । अथ पंचममंडलवर्तिनामनिर्दिष्टगोत्राणां क्वचिकथंचिदित्यादिपरिभापोक्तमांगिरसत्वं निरस्यन् गोत्रमाह । पंचमे मंडले अनुक्तगोत्रमात्रेयं विद्यात् । पंचम इति प्रथमादौ मा भूत । अतश्चमं षोडश कुत्स12 इत्यांगिरसत्वमेव भवति । मंडल इति विशेष्यत्वाय । पंचमे मंडल इत्युत्तरत्राप्यनुवर्तते। किमर्थ । तं गूधय यो यजात्यग्निनेंद्रेणेति सूक्तत्रयस्य पंक्त्यंतत्वेऽप्यपंचममंडलवर्तित्वाच्छेषमानुष्टुभं मा भूदिति वक्तुं । अनुक्तगोत्रमिति वृशो वा जान इत्युक्तगोत्रस्य वृशस्यात्रेयत्वं मा भूदिति विद्याद् अवगच्छेत्सवानुक्रमणीजिज्ञासुः ।
1 WI; प्रनष्टेः PI, P2, I2; omitted in I.
W1; यत्रिरत्र PI, P2, I 2. 3 WI; प्रत्युक्तः PI, P2, I 2. 4WI, P2, I 2; वार्षीक्षणांया P1; वषीक्षणायाम् 14. (PI; त्रिभ्यो WI, IA, P2, I2. WI, IA: आंगिरेवं PI; अंतरेष्वं P2, I2. 7W1; दृष्ट P2, I2; omitted in IA, PI. This story is not to be found in the passage in the BD. referring to this hymn. Cp. Pân. V, ii, 115. 10 y इन अलोपे WI; अत इति नलोपे PI; अत इति न लोपे P2, I 2; अत इत्रि नलोपे I 4. Cp. Unadi-sutra, IV, 68. 11 WI; निरस्यन्नांगिरसं । अनुक्तगोत्रमाह I 4; निरस्यन् सांगिरस: उक्तं च गोत्रमाह PI, P2, I 2. 12 Sutra on I, 94. 13 PI, I4; विशेषत्वाय Wr; विशेष्यत्वात् P 2, I 2. 14 WI; °त्र चानु the rest. 15 Rigv. VIII, 19, 31, and 35. 16 See satra on V, 2.
[III. 4.]
For Private And Personal Use Only