________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
98
॥ वेदार्थदीपिका ॥
तेन वाक्येन यः प्रतिपाद्यते स स्याँदेवता । तत्रेति देवतानुक्रमण्युपदेशात् । या तेनोच्यते सा देवतेति स्वयमुक्तेशागस्येंद्रमरुतां सर्वेषां देवतात्वे प्राप्त माह मरुत्वास्त्विंद्रो देवतेति । मरुद्भिस्तहानिंद्रो देवतास्य सूक्तस्य । तृतीयादीत्ययुगुक्तिराधाया मा भूदिति । एकादशी चेत्युक्तवान्मरुतां वाक्यमस्या मा भूदिति । तुशब्दो विशेषार्थः । गुणाद्धि पर श्रूयते । मरुदगस्त्यदेवतानिवृत्तिरूपश्च विशेषः । त्रिष्टुप् छंदः । यस्य वाक्यं स अपिरिति परिभाषया पूर्वोक्तदेवतानुक्रमण्या च वक्तार एव सर्वत्रर्षयः ॥११॥
१६६. अगस्यो नाम मैत्रावणिः । कुतः । वक्ष्यमाणावात् । अथागस्त्यस्य गोत्रं वक्तुमिच्छति । यज्ञार्ये दीक्षणीयेष्टिं कृत्वा स्थितयोः । उर्वशीं । उरुणा सृष्टा । पशू व्याप्तौ व्यानिशात्र सृष्टिरूपा। पृषोदरादिः । बदर्याश्रमवासिना भगवता नारायणेन समाधिभेदार्थमिंद्रप्रेषिताप्सरसां क्रीडार्थमात्मीयोरुप्रदेशामृष्टा हि सेतीतिहासविद आहुः । अप्सरसं स्वर्गलोकवारयोपितं यदृच्छयागतां दृष्ट्वा सभायामवलोक्य स्थितयो रेतः शुक्र यासतीवराख्यजलापारे कुंभेऽपतत् । ततः कुभान्महाघटादगस्त्यवसिष्ठावजायेतां प्रादुरभूतां । हयेजायीर्यसूक्ते तु कथैषा संप्रचक्ष्यते । तेनागस्यस्य मैत्रावरूणिचं सिद्ध । तथा सप्तममंडलस्य द्रष्टुर्वेसिष्ठस्य प्रसंगान्मैत्रावरूणित्वं सिद्धं ॥
१६९. द्वितीया विराड् दशकचतुष्टययुक्ता ॥ १७०. यजमानेनागस्यर्षिणेंने हविषीद्राय निरुने हविपि मरुतामर्थे मरुज्य इत्यर्थः । उद्यते होतमुत्क्षिने सतीद्रागस्त्ययोः संवादः । इंद्रपरिदेवनातच्छमनार्थीगस्त्यवाक्यरूपः । तदुक्तं निरुते । अगस्य इंद्राय हविर्निरूप्य मरुभ्यः संप्रदित्सांचकार स इंद्र रत्य परिदेवयांचवे। न नूनमस्तिनो श्व इति । रेंद्रः । इंद्रदेवत्यः । इंद्रवाक्यस्यागस्यदेवतानिवृत्त्यर्थमिदं । अथ विषादशांतये कया शुभीयमभूत् । श्रूयते हि । याकया शुभीयमेतेन ह वा इंद्रोऽगस्यो मरुतस्ते समजानतेति ॥
अत्र संवाद साधा तृतीया चेंद्रस्य वाक्यं । चतुर्थीद्रस्य वागस्त्यस्य वा । प्रादौ बृहती तिम्रो अनुष्टुभः । अनुक्तेरंत्या त्रिष्टुप् । अगस्पः खवास ऋषिः । इंद्रश्च स्ववाक्ये । सर्वत्र चेंद्रो देवता ॥
१७१. अंत्याश्वतम्रो महावदिंद्रदेवत्या महावास्विंद्रो देवतेति दर्शनात् प्रायेणेंद्रे मरुत" इति च। आदितो वे मारुत्यौ ॥ १५. इदमादिद्वे सूक्ते भानुष्टुभे ते च त्रिष्टुबते । भानुष्टुभं वित्ति शिष्टा जगत्य इत्यपवादः1 ।
1 येन WI. 20mitted by PI, P2, I 2, I 4. 3 P1; सा स्या Wr; शस्या 143B शंस्याद P2, I 2. 4 Introd. 52,57 ep. Ind. Stud. vol. i, p. II6. WI; मरूदगस्यदेवतात्वं मा भूनिवृत्तिरूपश्च the rest. Introd. $ 2, 4. 4, P2, I 2; वमिति PI; वनुमितिहासयति Wr. Cp. Naigh. II, I8. ° Rigv. x, 95. 10 Cp. VII, 33. 11 Nirukta, I, 5. 12 Ibid. Naigama, I, 6. 13 Rigv. I, 165.' 14 Ait. Br.V, xvi, 14 15 WI, PI, I43 श्राद्या तृतीया चतुर्थी इंद्रस्य वाक्यं अगस्यस्येत्यन्याः P2, I 2; चतुर्थ्यामिंद्रो वागस्यो वा I 3. 16 See satra on I, 16g. in Introd. 52, 22. 18 Introd. $12, 13%3 जगत्यपवाद: MSS.
For Private And Personal Use Only