________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥ ६. अनादेश इत्येव । छंदोऽनुक्तौ त्रिष्टुप् छंदो भवति । तेनेंद्रस्य पंचोनेत्यादौ छंदोऽनुक्की त्रिष्टुप छंद इति सिद्धं । देवरातो वारुणं तु त्रैष्टुभम् इत्यत्रानुक्तेरेव त्रैष्टुभत्वे सिद्धे त्रैष्टुभमित्यादौ गामत्रं प्राग्धैरण्यस्तूपीयादिति गायत्रत्वापवादः॥ ___9. अनादेश इत्येव । अयं दश प्रागाथम् इत्यत्र विशेषानुक्तौ बृहतीसतोबृहत्यौ बार्हत इत्युक्तो बाहत एव प्रगाथो भवति । तेन युजः मतोबृहत्योऽयुजो बृहत्य इति सिद्धं ॥
t. हिपदा विंशत्यक्षराः परिमाणतश्छंदस्तो विराज इति विद्यात् । यथा । पश्वा दश पराशरः शाक्यो द्वैपदमित्यादौ ॥ ___९. या एकपास्ता दशाक्षराः परिमाणतश्छंदस्तः पूर्ववद्विराज इत्येव विद्यात् । यथा । अंत्यैकपदेति । तदर्धे विंशत्यमित्यर्थः । अथ प्रसंगाविपदाबंध्ययनकाले विशेषमाह ॥
१०. अचोऽध्ययने त्वध्येतारो हे वे द्विपदे एकैकामूचं कृत्वा समामनंति समामनेयुः। सधीयीरन् । नाभ्यासे11 । लिङ्का लेट् । पाघ्रादिना शपि मनादेशः । वे द्विपदे यासां ता अचो द्विद्धिपदाः । समामनंतीति वचनाच्छंसनादौ न भवंति 14 । तेन पश्वा न तायुमिति द्वैपदमिति शंसने दशर्चवम् आसां चाध्ययने तु पंचत्वं भवति ॥ ___११. समामनंतीत्येव । अयुट्वेकादशादिषु डिपदास्वत्यैव द्विपदा भवेवान्यथा । यथा । वनेमैकादशेत्यंत्र साधुन गृभुरित्यादि ॥
१२. आ ऍट्राद ऐंद्रसंशब्दाप्राङ् मंडलादिष्वाग्नेयं विद्यात् । यथा। अग्निं नव मधुच्छंदौस्त्वमग्ने जागतं वित्यादिषु ॥
१३. यस्य सूक्तस्यांते त्रिष्टुबित्युच्यते तस्य सूक्तस्य नहर्ने शिष्टा अन्या ऋचो जगत्यो वेदितव्याः। यथा । आग्नेयं त्रिष्टुबंत्याष्टमीपोळश्यौ चेति ॥ ___१४. संहितादौ त्वमग्ने यूना हिरण्यस्तूप इति हिरण्यस्तूपसंशब्दनात्माक छंदो गायत्रीति विद्यात् । छंदसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानमिति गायत्र्येव गायत्रं । संहितापेक्षमादित्वं । अन्यत्र हिरण्यस्तूपस्यानुलंभात संहितायाः परमप्रकृतत्वाच ॥
॥ इति द्वादशखंडी24 तु परिभाषा प्रवर्णिता 25॥
1 sutra on 1, 22. 2 In shtra on I, 24. 3612 IAL 4 Satra on I, AM. EPI. P2, I 2; इत्यादौ WI, I 4. FII, 2. 7 Satra on I, 65. For Yaska's view of the ekapadâ, cp. Rigv. Pr. 993 and Ind. Stud. VIII, pp. 133, 144, foot-notes. Satra on V, 4I. 10 WI, 14 °पदाध्ययनकाले I 2, PI, P2. 11 WI, IA; नाभ्यासे PI3B omitted in P2, I 2. 12 Pan. III, iv, 73; छंदसां लिङर्थे लेट P2, I 2. 13 0p. Pan. VII, iii, 78. 14 12; भवति WI, I 4. 15 Satra on I, 65. 1 WI; नान्या 143 नान्या: PI, P2, I 2. 17 Satra on I, 70. 18 Ver.1. 1 संशब्दस्वात् WI, 20 Sutra on I, I. 1 II, I. 22 I, 31. 23 I, 31. 24 1 4, PI, P2 ; कंडी W1; खंडेषु I 2. 25 WI, 14; प्रवर्तिताः PI, P2, I2.
For Private And Personal Use Only