________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ROCODSODECHOTS
नुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समये समये क्षयमुपयाति तावद्यावदावलिका स्थितिः । ततोऽमृनि आवलिकामात्रसमयप्रमाणानि स्थितिस्थानानि निरन्तराणि लभ्यन्ते ॥२०॥
(उ०)-तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वं, अथ स्थितिभेदनिरूपणार्थमाह-सर्वेषां कर्मणां निजनिजादुत्कृष्टात् स्थितिस्थानादारभ्याधस्तादवतरता तावद्गन्तव्यं यावत्स्थावरजघन्यमेकेन्द्रियभायोग्यं जघन्यस्थितिसत्कर्म समायाति । एतावति स्थितिकण्डके | यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्षया नैरन्तर्येण लभ्यन्ते । तथाहि-उत्कृष्टा स्थितिरेकं स्थितिस्थानं, सैव सम| योना द्वितीयं, द्विसमयोना तृतीयं, एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्द्रियप्रायोग्याच्च जघन्यस्थिति| सत्कर्मणोऽघस्ताक्षपणादिषु क्षपणे उद्बलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते, अपिशब्दानिरन्तराणि च । कथमिति चेद् , उच्यते| एकेन्द्रियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमानं स्थितिखण्डं खण्डयितुमारभ्यते, खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽधस्तादुदयवतीनामनुभवेनानुदयवतीनां तु स्तिबुकसंक्रमेण समयमात्रा समययात्रा स्थितिः क्षीयते, ततः प्रतिसमयं हानिकृताः स्थितिविशेषा लभ्यन्ते । तथाहि-तत्स्थावरप्रायोग्यं जघन्यस्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं, द्वितीयसमयेऽतिक्रान्ते द्विसमयहीनं, तृतीयसमयेऽतिक्रान्ते त्रिसमयहीनमित्यादि भवति, अन्तर्मुहुर्तेन च कालेन तत् स्थितिखण्डं | खण्डयतीत्यन्तर्मुहत्तं यावदेते समयसमयहानिकृता विशेषा लभ्यन्ते, तत उक्तस्थितिखण्डप्रमाणा स्थितियुगपदेव त्रुटितेति अन्तर्मुहदिर्घ निरन्तराणि स्थितिस्थानानि न लभ्यन्ते, ततः पुनरपि द्वितीयं पल्योपमासंख्येयभागमात्रं स्थितिखण्डमन्तर्मुहर्त्तमात्रेण खण्डयति, तत्रापि प्रतिसमयमधः समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि प्राबल्लभ्यन्ते, द्वितीये चस्थितिखण्डे
For Private and Personal Use Only