SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shekilassagersuri Gyanmandir (मलय०)-तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वम् , सम्प्रति स्थितिभेदप्ररूपणार्थमाह-'ठिइसंतढाणाई ति । सर्वेषां कर्मणां | कर्मप्रकृतिः शस्वकीयात् खकीयात् उत्कृष्टात् स्थितिस्थानात् समयमात्रादारभ्याधस्तात्तावदवतरीतव्यं यावत् स्थावरजघन्य-एकेन्द्रियप्रायोग्यं जघन्यं । सत्ता ॥४९॥ | स्थितिसत्कर्म | एतावता स्थितिकण्डके यावन्तः समयास्तावन्नि स्थितिस्थानानि नानाजीवापेक्षया 'निरन्तरेण नैरन्तर्येण लभ्यन्ते । स्थितिभेद तद्यथा-उत्कृष्टा स्थितिरेकं स्थितिस्थानम् , समयोना उत्कृष्टा स्थितिर्द्वितीयं स्थितिस्थानं, द्विसमयोना उत्कृष्टा स्थितिस्तृतीयं प्ररूपणा | स्थितिस्थानम् । एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्द्रियप्रायोग्याच जघन्यस्थितिसत्कर्मणोऽयस्तात् क्षपणादिषु क्षपणे उद्बलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते । अपिशब्दान्निरन्तराणि च । कथमिति चेत् , उच्यते-एकेन्द्रिय| प्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमात्र स्थितिखण्डं खण्डयितुमारभते । खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽधस्तादुदयवतीनामनुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिः क्षीयते । ततः प्रतिसमयं स्थितिविशेषा लभ्यन्ते । तद्यथा-तत्स्थावरप्रायोग्यं जघन्य स्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं, द्वितीये समयेऽति-| क्रान्ते द्विसमयहीनम् , तृतीये समयेऽतिक्रान्ते त्रिसमयहीनमित्यादि । अन्तमुहर्तेन च कालेन तत् स्थितिखण्डं खण्डयति । तत एतावती स्थितियुगपदेव त्रुटितेति कृत्वाऽन्तर्मुहूर्ताचं निरन्तराणि स्थितिस्थानानि न लभ्यन्ते । ततः पुनरपि द्वितीयं पल्योपमासंख्येयभागमात्रमन्तर्मुहूर्तमात्रेण खण्डयति । तत्रापि प्रतिसमयमधः समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि पूर्वप्रकारेण लभ्यन्ते । द्वितीये च स्थितिखण्डे,खण्डिते सति पुनरपि पल्योपमासंख्येयभागमात्रा स्थितियुगपदेव त्रुटितेति न भूयोऽप्य ॥४९॥ |न्तर्मुहुर्तावं निरन्तराणि स्थितिस्थानानि लभ्यन्ते । एवं तावद्वाच्यं यावदावलिका शेषा भवति । सापि चावलिका उदयवतीनाम DiSOHDINDwagat खरत For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy