________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achare Shri Kailassagarsuri Gyanmandit
सत्ता स्थितिसत्कर्मस्वामित्वं
प्राप्यते, किन्तु पररूपेण, अत उक्तं उपान्त्यसमये स्वरूपापेक्षया समयमात्रा अन्यथा तु द्विसमयमात्रकालेति । सम्प्रति सामान्येन कर्मप्रकृतिः सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामि प्रतिपाद्यते-त्रानन्तानुबन्धिनां दर्शनमोहनीयत्रिकस्य चाविरतादिरप्रमत्तपर्यन्तो यथासंभवं I
| जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये वर्तमानाः । कषायाष्टकस्त्यानद्धित्रिकनामत्रयो ॥४७॥
दशकनवनोकषायसंज्वलनविकरूपाणां पत्रिंशत्प्रकृतीनामनिवृत्तिबादरसंपरायः । संज्वलनलोभस्य सूक्ष्मसंपरायः। ज्ञानावरणपश्चकCell दर्शनावरणपदकान्तरायपश्चकानां क्षीणकषायः। शेषाणां पञ्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ॥१९॥
(उ०)-तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मखामित्वं, अथ जघन्यस्थितिसत्कर्मस्वामित्वमाह-संज्वलनत्रिकस्य क्रोधमानमायारूपस्य सViप्तानां नोकषायाणां पुरुषवेदहास्यादिषट्करूपाणां जघन्यं स्थितिसत्कर्म जघन्यस्थितिसंक्रमो ज्ञातव्यः, एतासां प्रकृतीनां बन्धस्योदयस्य
च व्यवच्छेदे सत्यन्यत्र संक्रमेण क्षयनयनं भवतीति य एवासां चरमः संक्रमः स एव जघन्यस्थितिसत्कर्मेति भावः । शेषाणां पुनरु75/ दयवतीनां ज्ञानावरणपश्चकदर्शनावरणचतुष्टयवेदकसम्यक्त्वसंज्वलनलोभायुश्चतुष्टयनपुंसकवेदस्त्रीवेदसातासातवेदनीयोचैर्गोत्रमनुजगति
पञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्तरायपश्वकरूपाणां चतुस्त्रिंशत्प्रकृतीनां स्वस्वक्षयचरमसमये यैका समयमात्रा स्थितिः सा जघन्यस्थितिसत्कर्म । अनुदयवतीनां तु स्वस्वक्षयोपान्त्यसमये स्वरूपापेक्षया समयमात्राऽन्यथा तु द्विसमयमात्रा स्थितिजघन्यं स्थितिसत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रक्षेपात्तत्स्वरूपेणानुभवाच्च स्वरूपेण दलिकं न | | प्राप्यते किंतु पररूपेणेत्येवमुक्तम्। अथ सामान्येन सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामी प्रतिपाद्यते-तत्रानन्तानुबन्धिनां दर्शनमोहनी- यत्रयस्य चाविरतादिरप्रमत्तपर्यन्तो यथायोगं जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये
SDOGGE
॥४७॥
For Private and Personal Use Only