________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RDISC
उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म । यासां पुनः प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते न च संक्रमकाले उदयोऽस्ति तासां संक्रमकालेऽनुदयानां तावदेव पूर्वोक्तं स्थितिसत्कर्म समयोनमवगन्तव्यम्-आवलिकाद्विकहीनोत्कृष्टस्थितिसमागम | आवलिकया सहितः समयोनस्तासामुस्कृष्टं स्थितिसत्कर्मेत्यर्थः। तथाहि-कश्चिन्मनुष्य उत्कृष्टसंक्लेशवशादुत्कृष्टां नरकगतिस्थिति बद्या परिणामपरावर्तनेन देवगतिं बध्धुमारब्धवान् । तस्यां च देवगतौ बध्यमानायामावलिकाया उपरि नरकस्थिति बन्धावलिकातीतां * उदयावलिकाया उपरितनी सकलामपि विंशतिसागरोपमकोटीकोटी प्रमाणां संक्रमयति । प्रथमा च स्थितिः समयमात्रा देवगतेः सत्का | मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेण संक्रामति । ततस्तया समयमात्रया स्थित्या ऊन आवलिकयाऽभ्यधिक आवलिकाद्विकहीनो-3 स्कृष्टस्थितिसमागमो देवगतेरुत्कृष्टं स्थितिसत्कर्म । एवं द्वित्रिचतुरिन्द्रियजात्याहारकसप्तकमनुजानुपूर्वीदेवानुपूर्वी वक्ष्मापर्याप्तसाधार-12 णतीर्थकराख्यानामपि षोडशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम् । सम्यग्मिथ्यात्वस्य पुनरन्तर्मुहूर्तोन उत्कृष्टस्थितिसमागम आवलिकयाऽभ्यधिकसमयोन उत्कृष्टं स्थितिसत्कर्म वाच्यम् । तच्च सम्यक्त्वोक्तभावनानुसारेण भावनीयम्। 'उभयासि जट्ठिई तुल्ल' ति-उभयीपामुदयवतीनामनुदयवतीनां च प्रकृतीनां संक्रमोत्कृष्टस्थितीनां संक्रमकाले 'यस्थिति:'-सर्वास्थितिस्तुल्या। | यतोऽनुदयवतीनामपि तदानीं प्रथमस्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणापि दलिकरहिता विद्यते एव । न हि कालः संक्र
मयितुं शक्यते, किन्तु तत्स्थं दलिकमेव । ततः प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहिता प्रथमा स्थितिः तदानीं विद्यत | 2 | एवेति कृत्वा उभयीषामपि यस्थितिः तुल्या। यश्च यासां प्रकृतीनां उत्कृष्टां स्थिति वनाति, यश्च यासूत्कृष्टां स्थितिं संक्रमयति, स तासामुत्कृष्टस्थितिसत्कर्मस्वामी ॥१८॥
A
RRI
For Private and Personal Use Only