SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DOCIC १५ मद्वारकावलिकाद्विकहीनोत्कृष्टस्थितिसमागमप्रमाणमावलिकासहितं प्रागुक्तमेवोत्कृष्टं स्थितिसत्कर्म समयोनमवगन्तव्यम् । तथाहि मनुष्यः कश्चिदुत्कृष्ट संक्लेशपरिणत उत्कृष्टां नरकस्थिति बद्धा परिणामपरावृत्या देवगतिं बर्बु लग्नः, तस्यां च देवगतौ बध्यमानायामावलिकाया उपरिष्टाद्वन्धावलिकातीतां नरकस्थितिमुदयावलिकात उपरितनी सकलामपि विंशतिसागरोपमकोटाकोटिप्रमाणां संक्र. मयति, प्रथमां च स्थिति देवगतेः समयमात्रां मनुजगतौ वेद्यमानायामनुदयवतीत्वेन स्तिबुकसंक्रमेण संक्रमयति । ततस्तया समयमात्रया स्थित्योन आवलिकयाऽभ्यधिक आवलिकाद्विकहीन उत्कृष्टस्थितिसमागमो देवगतेरुत्कृष्टं स्थितिसत्कर्म । एवं देवानुपूर्व्यादी नामपि षोडशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम्। सम्यग्मिथ्यात्वस्य पुनरन्तर्मुहत्तौन उत्कृष्टस्थितिसमागम आवलिकयाऽभ्यधिकः समयोन उत्कृष्टस्थितिसत्कर्म वाच्यम् । तद्भावना च सम्यक्त्वभावनातुल्या विधेया। तथा उभयीषामुदयवतीनामनुदयवतीनां च संक्रमोत्कृष्टस्थितिकानां प्रकृतीनां संक्रमकाले यस्थिति:-सर्वास्थितिस्तुल्या, यतोऽनुदयवतीनामपि प्रथमा स्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणाऽपि दलिकरहिता तदानीं विद्यत एव, न हि कालः संक्रमयितुं शक्यते किं तु दलिकमेव, ततः प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहितप्रथमस्थितेविद्यमानत्वानपायादुभयीषामपि यत्स्थितेस्तुल्यतेति । संक्रमकृतपरस्वरूपनिरू| पिततया प्रथमस्थितेः स्वस्थितिबहिर्भाव एव युक्त इति चेन्न तथाप्येकस्थितिसंतत्युपादानत्वेन प्रथमस्थितेः स्वस्थित्यन्तर्भावाविरोधादिति युक्तं पश्यामः । यश्च यासां प्रकृतीनामुत्कृष्टां स्थितिं बध्नाति यश्च यासूत्कृष्टस्थितिं संक्रमयति स तासामुत्कएस्थितिसत्कर्मस्वामी ॥१८॥ इयाणिं जहन्नहितिसंतकम्मसामित्तं भन्नति KADDED Chakka For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy