________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः ॥४५॥
5222225
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( उ० ) - यासां प्रकृतीनां संक्रमकाले उदयोऽपि विद्यते संक्रमत एव चोत्कृष्टं स्थितिसत्कर्म प्राप्यते न बन्धतस्तासां संक्रमतो दीर्घाणामुदयसंक्रमोत्कृष्टानां मनुजगतिसातावेदनीयसम्यक्त्वस्थिरशुभसुभग सुस्वरादेययशः कीर्तिन वनोकषाय प्रशस्त विहायोगतिप्रथम|संहननपञ्चक प्रथम संस्थानपञ्चको चै गोत्र लक्षणानां त्रिंशत् प्रकृतीनां य आगमः संक्रमेणावलिकाद्विकहीन उत्कृष्ट स्थितिसमागमः स आवलिकयोदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म । इदमुक्तं भवति - सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बध्नाति । तच्च बद्धा सातं बध्धुं लग्नः, असातावेदनीयं च बन्धावलिकातीतं सदावलिकात उपरितनं सकलमप्यावलिकाद्विकहीनत्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातावेदनीये वेद्यमाने बध्यमाने चोदयावलिकाया उपरिष्टात्संक्रमयति, ततस्तयोदयावलिकया सहितः - संक्रमद्वारकावलिकाद्विकही नोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसत्कर्म, एवमन्यासामप्युदय संक्रमोत्कृष्टानामावलिकाद्विकहीन स्वस्वसजातीयोत्कृष्टस्थितिसमागमप्रमाणमुदयावलिकासहितमुत्कृष्टस्थितिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्तमुहूर्त्तानोत्कृष्ट स्थितिसमागमप्रमाणमुदयावलिकासहितमुत्कृष्टं स्थितिसत्कर्म द्रष्टव्यं यतो मिथ्यात्वस्योत्कृष्टां स्थितिं बद्धा ततोऽन्तमुहूर्त्त मिथ्यात्व एव स्थित्वा सम्यक्त्वं प्रतिपद्यते, तत्प्रतिपत्तौ च सत्यां मिथ्यात्वस्योत्कृष्टां स्थितिमावलिकात उपरितनीमपि सङ्ख्ययाऽन्तर्मुहूर्त्तोनसप्तति सागरोपमकोटा कोटिप्रमाणां सकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति, ततोऽन्तर्मुहूतन एवोत्कृष्टस्थितिसमागम उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म |
तथा यासां प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते न च संक्रमकाले उदयोऽस्ति तासामनुदयानामनुदय संक्रमोत्कृष्टानां | देवगतिदेवानुपूर्वीसम्य मिथ्यात्वाहार कसप्तक मनु जानुपूर्वीद्वित्रिचतुरिन्द्रियजातिसूक्ष्मसाधारणापर्याप्ततीर्थकरलक्षणानामष्टादशानां संक्र
For Private and Personal Use Only
सत्ता
स्थिति
सत्कर्म
स्वामित्वं
118411