SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (मलय०)-तदेवं कृता साद्यनादिप्ररूपणा । सम्पति स्वामित्वं वक्तव्यम् । तच्च द्विधा-उत्कृष्टस्थितिसत्कर्मस्वामित्वं, जघन्यस्थिति| सत्कर्मस्वामित्वं च । तत्र प्रथमत उत्कृष्टस्थितिसत्कर्मवामित्वमाह-जेट्ठठिइति । यासां प्रकृतीनां सह युगपत् बन्धोदयौ भवतः, कासां युगपत् बन्धोदयौ भवतः? इति चेत् उच्यते-ज्ञानावरणपञ्चकदर्शनावरण चतुष्टयासातवेदनीयमिथ्यात्वषोडशकषायपश्चेन्द्रियजातितजससप्तकहुण्डसंस्थानवर्णादिविंशत्यगुरुलघुपराधातोपघातोच्छ्वासाप्रशस्तविहायोगत्युद्योतत्रसबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःखरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्रपञ्चविधान्तरायाणां तिर्यअनुष्यानधिकृत्य वैक्रियसप्तकस्य सर्वसंख्यया षडशीतिप्रकृतीनाम् , तासां 'ज्येष्ठ-उत्कृष्टं स्थितिसत्कर्म 'ज्येष्ठस्थितिबन्धसम'-उत्कृष्टस्थितिबन्धप्रमाणं भवति। तासां हि उत्कृष्टस्थितिबन्धारम्भेऽबाधाकालेऽपि | प्रारबद्धं दलिकं प्राप्यते । न च तासां प्रथमस्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, उदयवतीत्वात् । ततस्तासामुत्कृष्टस्थितिबन्धप्रमाणमुत्कृष्टं स्थितिसत्कर्म प्राप्यते। अनुदयबन्धपराणां समयोना ज्येष्ठा स्थितिज्येष्ठमुत्कृष्टं स्थितिसत्कर्म । तत्रानुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यास ता अनुदयबन्धपराः-निद्रापञ्चकनरकद्विकतिर्यग्द्विकौदारिकसप्तकैकेन्द्रियजातिसेवासिंहननात स्थावररूपा विंशति| संख्यास्तासां समयोना उत्कृष्टा स्थितिरुत्कृष्ट स्थितिसत्कर्म । तथाहि-एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालेऽपि प्राग्बद्धं दलिकमस्ति तथापि प्रथमस्थिति तासामुदयक्तीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति । तेन तया प्रथमस्थित्या समयमात्रया ऊना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । अथोच्येत-कथं निद्रादीनामनुदये सति बन्धेनोत्कृष्टा स्थितिः प्राप्यते ? उच्यते-उत्कृष्टो हि स्थितिबन्ध | उत्कृष्ट संक्लेशे भवति । न चोत्कृष्टे संक्लेशे वर्तमानस्य निद्रापञ्चकोदयसंभवः । नरकदिकस्य तियञ्चो मनुष्या वा उत्कृष्टस्थितिपन्धकाः । न च तेषां नरकद्विकोदयः संभवतीति । शेषकर्मणां तु देवा नारका वा यथायोगमुत्कृष्टस्थितिबन्धकाः, न च तेषु | For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy