________________
Shri Mahavir Jain Aradhana Kondra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
GOOD
सत्ता स्थितिसत्कर्म स्वामित्वं
|संकमेण संकमति तेण उदयहितीते समऊणं वुचति । 'उभयासिति-उदयवतीणं अणुदयवदीणं च संकमुक्कस्साकर्मप्रकृतिःणं जहिती दोण्हवि तुल्ला भन्नति।कहं ? भण्णति-तम्मि काले उ(अणु)दयवतीण पि समतो दलियरहिओ अत्थित्ति
काउं । उक्कोसं द्वितिसंतसामित्तं भणियं ॥१८॥ ॥४४॥
___ (मलय०)-'संकमओ'त्ति-यासां प्रकृतिनां संक्रमत उत्कृष्टं स्थितिसत्कर्म प्राप्यते, न बन्धतः, उदयोऽपि च विद्यते तासां संक्रमतो दीर्घाणां संक्रमवशलब्धोत्कृष्टस्थितिकानां य आगमः संक्रमेण आवलिकाद्विकहीनोत्कृष्टस्थितिसमागमः स 'आवलिकया' उदयावलिकया सह उत्कृष्टं स्थितिसत्कर्म । एतदुक्तं भवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बध्नाति, तच्च बद्धा सातं बर्बु लग्नः, | असातवेदनीयं च बन्धावलिकातीतं सत् आवलिकात उपरितनं सकलमपि आवलिकाद्विकहीनं त्रिंशत्सागरोपमकोटीकोटीप्रमाण स्थितिKा सत्कर्म तस्मिन् सातवेदनीये वेद्यमाने बध्यमाने च उदयावलिकाया उपरिष्टात् संक्रमयति, ततस्तया उदयावलिकया सहितः संक्र
मेणावलिकाद्विकहीनोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसत्कर्म । एवं नवनोकषायमनुजगतिपथमसंहननपश्चकप्रथमसंस्थानपञ्चकप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशःकीत्युच॑र्गोत्राणामष्टाविंशतिप्रकृतीनामावलिकाद्विकहीनः स्वस्वसजातीयोत्क
स्थितिसमागमः उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्तर्मुहूतोंन उत्कृष्टस्थितिसमागम उदया. | वलिकया सहित उत्कृष्टं स्थितिसत्कर्म । तथाहि-मिथ्यात्वस्योत्कृष्ट स्थितिं बद्धा तत्रैव च मिथ्यात्वेऽन्तर्मुहूर्त स्थित्वा ततः सम्यक्त्वं प्रतिपद्यते । तस्मिंश्च प्रतिपन्ने सति मिथ्यात्वस्योत्कृष्टां स्थिति-आवलिकात उपरितनी स्थिति-तथापि संख्ययाऽन्तर्मुहूर्तोनसप्ततिसागरोपमकोटीकोटीप्रमाणां सकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति । ततोऽन्तर्मुहूर्तोन एवोत्कृष्टस्थितिसमागम
DRODARDOICES
॥४४॥
For Private and Personal Use Only