________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
| तेषामुदयो घटते ॥१७॥ कर्मप्रकृतिः (७०)-तदेवं कृता साधनादिप्ररूपणा, सम्प्रति स्वामित्वं वाच्यं, तच्च द्विधा-उत्कृष्टस्थितिसत्कर्मस्वामित्वं जघन्यस्थितिसत्कर्म- सत्ता
Yखामित्वं च, तत्र प्रथमत उत्कृष्टस्थितिसत्कर्म स्वामित्वमाह-यासां प्रकृतीनां सह युगपद्वन्धोदयौ भवतस्तासां ज्ञानावरणपश्चकदर्श- स्थिति॥४३॥ नावरणचतुष्टयासातवेदनीयमिथ्यात्वषोडशकषायपश्चेन्द्रियजातितैजससप्तकहुण्डसंस्थानवर्णादिविंशत्यगुरुलघुपराघातोपघातोच्छ्वासाप्रश
सत्कर्म स्तविहायोगत्युद्योतत्रसबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचे!त्रान्तरायपञ्चकतिर्यअनुष्यापेक्षिकवैक्रि
स्वामित्वं यसप्तकलक्षणानां उदयबन्धोत्कृष्टानां पडशीतिप्रकृतीनां ज्येष्ठमुत्कृष्टं स्थितिसत्कर्म ज्येष्ठस्थितिबन्धसमं उत्कृष्टस्थितिबन्धप्रमाणं भवति । एतासां ह्युत्कृष्टस्थितिबन्धारम्भेऽबाधाकालमध्ये प्राग्बद्धदलिकप्राप्तावप्युदयवतीत्वात्प्रथमस्थितेरन्यत्र स्तिवुकसंक्रमेण न संक्रम इत्यु. स्कृष्टस्थितिबन्धप्रमाणादुत्कृष्टस्थितिसत्कर्मणो न कोऽपि विशेषः । तथाऽनुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयब-13 न्धपरा:-निद्रापश्चकनरकद्विकतिर्यद्विकौदारिकसप्तकैकेन्द्रियजातिसेवार्त्तसंहननातपस्थावररूपा विंशतिः, तासां समयोनोत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । तथाहि-एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालमध्येऽपि प्राग्बद्धं दलिकमस्ति, तथापि प्रथमस्थिति | तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति, तेन तया समयमात्रया प्रथमस्थित्योनोत्कृष्टा स्थितिः । अथ कथं निद्रादीनामनुदये सति बन्धनोत्कृष्टस्थितिप्राप्तिः ? उच्यते-उत्कृष्टः स्थितिबन्धः उत्कृष्टसंक्लेशाधीनो, न चोत्कृष्टसंक्लेशसत्वे निद्रापञ्चकोदयसंभवः, नरकद्विकस्य चोत्कृष्टां स्थिति तियञ्चो मनुष्या वा बध्नन्ति, न च तेषु नरकद्विकोदयः संभवी । शेषाणां तु देवा नारका वा यथासंभ
॥४३॥ वमुत्कृष्टस्थितिबन्धकाः, न च तेषु तदुदयोपपत्तिरित्येतासामनुदय एवोपपन्न उत्कृष्टस्थितिबन्ध इति ॥१७॥
ROMODISROFEROHOREOGia
KKRABODONCE
For Private and Personal Use Only