________________
Shri Mahavir Jain Aradhana Kendra
DSSS
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पेक्षया समयमात्रैकस्थितिकं, कर्मत्वसामान्यापेक्षया तु द्विसमयमानं, तच्च साद्यधुवं, ततोऽन्यत्सर्वमजघन्यं, तदप्युलितानां भूयो बन्धे सादि, तत्स्थानमप्राप्तानामनादि, ध्रुवाध्रुवता प्राग्वत् । तथा तीर्थकरनामोद्लनयोग्यत्रयोविंशत्यायुश्चतुष्टयवर्जितानां शेषाणां षड्विंशत्यधिकशतसङ्ख्यानां प्रकृतीनामजघन्यं स्थितिसत्कर्म त्रिधाऽनादिधुवाधुव भेदात् । तथाहि - एतासां जघन्यस्थितिसत्कर्म खखक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपं अनुदयवतीनां स्वरूपतः समयमात्रैकस्थितिकं स्तिबुकसंक्रमोपनीतपररूपानुगतकर्मत्वसामान्यापेक्षया द्विसमयमात्रं तच्च साद्यध्रुवं ततोऽन्यत्सर्वमजघन्यं तच्चानादि सदैव भावात् ध्रुवाधुवता प्राग्वत् । अनुक्तमुक्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं जिननामसुरद्विकनरद्विकनरक द्विकवैक्रि यसप्तकाहारकसप्त को चैर्गोत्र सम्यक्त्वसम्यङ्मिथ्यात्वरूपत्रयोविंशत्युद्वलनप्रकृत्यायुश्चतुष्टयानां च जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं भेदचतुष्कं द्विधा साद्यध्रुवं चेति, तथाहि उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टे स्थितिसत्कर्मणी पर्यायेणानेकशो भवत इति द्वे अध्येते साद्यध्रुवे, जघन्यं च प्रागेव भावितम् । जिननामादीनां चाधुवसत्कर्मत्वाच्चत्वारोऽपि भेदाः साद्यध्रुवा ज्ञेयाः ॥ १६ ॥
भणिया सादियाणादिपरूवणा । इयाणि सामित्तं भवति । तं दुविह-उक्कोसट्ठितिसंतसामित्तं जहन्नद्विति संतसामित्तं । तत्थ पुत्रवं उक्कोसट्ठितिसंतसामित्तं भण्णइ
जेठई बंधसमं जे बंधोदया उ जातिं सह । अणुदयबंधपराणं समऊणा जट्ठिई जेट्टं ॥१७॥ (०) - 'जेट्ठिई बंधसमं जेहं बन्धोदया उ जासि सह त्ति - उक्कोसट्टितिबंधिणसरिसउकोसद्वितिसंत, तेसिं कम्माणं 'बन्धोदया जासि सह त्ति-जासिं पगतीणं बन्धो वि अत्थि उदओ वि अत्थि, के ते ? भण्णइ-पंच
For Private and Personal Use Only