SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥४१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतासां जघन्यं स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपम्, अनुदयवतीनां स्वरूपतः समय मात्रैकस्थितिकम्, अन्यथा तु द्विसमयमात्रम् । तच्च साद्यध्रुवम् । ततोऽन्यत्सर्वमजघन्यम् । तच्चानादि, सदैव भावात् । ध्रुवाध्रुवता पूर्ववत् । 'दुहाणुत्तं'त्तिअनुक्तं उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं तीर्थकरना मोटूलन योग्यदेवद्विकनरकद्विकमनुजद्विक वैक्रिय सप्तकाहारकसप्तको चैत्रसम्य तत्रसम्यमिध्यात्वरूपत्रयोविंशत्यायुश्चतुष्टयानां जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं विकल्पचतुष्टयं 'द्विधा' - द्विप्रकारम्, तद्यथा - सादि अध्रुवं च । तथाहि उक्तप्रकृतीनामुत्कृष्टमनुत्कृष्टं च स्थितिसत्कर्म पर्यायेणानेकशो भवति । ततो द्वितीयमपीदं साद्यध्रुवम् । जघन्यं | च प्रागेव भावितम् | तीर्थकरनामादीनां चाध्रुवसत्कर्मत्वाच्चत्वारोऽपि विकल्पाः साद्यध्रुवा अवसेयाः । मूलप्रकृतीनां चानुक्तं जघन्यमुत्कृष्टमनुत्कृष्टं च द्विप्रकारम् प्रागेव चोक्तम् ||१६|| (उ०)—तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थितिसत्कर्म वक्तव्यं, तत्र त्रयोऽर्थाधिकाराः, तद्यथा-भेदः साद्यनादिप्ररूपणा स्वामित्वं | चेति । तत्र भेदः प्रागिव । साद्यनादिप्ररूपणाऽपि मूलप्रकृतिविषयोत्तरप्रकृतिविषया चेति द्विविधा । तत्र प्रथमतो मूलप्रकृतिविषयां साद्यनादिप्ररूपणां चिकीर्षुराह - मूलप्रकृतिस्थितिसत्कर्माजघन्यं त्रिधा - त्रिप्रकारं तद्यथा - अनादि ध्रुवमधुवं च । तथाहि मूलप्रकृतीनां जघन्यं स्थितिसत्कर्म स्ववक्षय पर्यवसाने समयमात्रैकस्थित्यावशेषे भवति, तच्च साद्यध्रुवं, ततोऽन्यत्सर्वमजघन्यं स्थितिसत्कर्म, तच्चानादि सदैव भावात् ध्रुवाधुवत्ता पूर्ववत् । उत्कृष्टानुत्कृष्टे तु स्थितिसत्कर्माणी पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवतया द्विविधे एवेत्यर्थाद्भावनीयम् । | कृता मूलप्रकृतीनां साधनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतीनां तां चिकीर्षुराह 'चउद्धा य' इत्यादि । प्रथमायाः षष्ठयर्थत्वात्प्रथमकपायाणामनन्तानुबन्धिनामजघन्यं स्थितिसत्कर्म चतुर्धा - साद्यनादिधुवाधुवभेदात् । तथाहि अमीषां स्थितिसत्कर्म स्वक्षयोपान्त्यसमये स्वरूपा - For Private and Personal Use Only सत्ता स्थितिसत्कर्मणि साद्यादि प्ररूपणा ॥४१॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy