________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( मलय ० ) - सम्प्रति मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनार्थमाह- 'एगाइ' ति । मोहनीयस्य पञ्चदश प्रकृतिसत्कर्मस्थानानि । तद्यथा-एका, द्वे, तिस्रः, चतस्रः, पञ्च, एकादश, द्वादश, त्रयोदश, एकविंशतिः, द्वाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, षड्विंशतिः, | सप्तविंशतिः, अष्टाविंशतिश्चेति । एतानि सुखावबोधार्थ गाथाक्रमवैपरीत्येन भाव्यन्ते - तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः । सम्यक्त्वे उद्वलिते सप्तविंशतिः । ततोऽपि सम्यमिध्यात्वे उद्वलिते षड्विंशतिः, अथवाऽनादिमिध्यादृष्टेः षट्विंशतिः । अष्टाविंशति| रनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । ततो मिध्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यमिध्यात्वे क्षीणे द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः षट्सु नोकषायेषु क्षीणेषु पञ्च । ततः पुरुषवेदे क्षीणे चतस्रः । ततः संज्वलनक्रोघे क्षीणे तिस्रः । ततः संज्वलनमाने क्षीणे द्वे । संज्वलनमायायां च क्षीणायामेका ॥ ११॥
( उ० ) - अथ मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनायाह- मोहनीयस्य पश्चदश प्रकृतिसत्कर्मस्थानानि । तथाहि एकाद्याः पञ्च, | एका द्वे तिस्रश्चतस्रः पञ्च चेत्यर्थः, तथैकादश द्वादश त्रयोदशौकविंशतिस्त्रयोविंशतिश्चतुर्विंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिचेति । | एतानि सुखावबोधाय गाथाक्रममुत्सृज्य भाव्यन्ते तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः । सम्यक्त्वे उद्वलिते सप्तविंशतिः । ततोऽपि सम्यग्मिथ्यात्वे उद्वलिते षड्विंशतिः, यद्वाऽनादिमिध्यादृष्टेः पविंशतिः । अष्टाविंशतेरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । ततो मिध्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यमिध्यात्वे क्षीणे द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततोऽष्टसु कपायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः षट्सु नोकपायेषु क्षीणेषु पञ्च । ततः पुरुष
For Private and Personal Use Only