________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सत्ता प्रकृतिसत्कस्थान
स्वामित्वं
ऽनन्तानुबन्धिक्षये वेदकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा चतुर्विंशतिः । वेदकसम्यग्दृष्टेमिथ्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यकर्मप्रकृतिः। मिथ्यात्वे क्षपिते द्वाविंशतिः। क्षायिकसम्यग्दृष्टेरेकविंशतिः । तथा देशविरतिगुणस्थानके पश्च प्रकृतिसत्कर्मस्थानानि, तानि च
पूर्वोक्तान्येव । तान्येव प्रमत्तसंयतगुणस्थानके । तान्येव चाप्रमत्तसंयतगुणस्थानके । 'अह दोनिति-अथानन्तरं अपूर्वकरण| गुणस्थानके द्वे प्रकृतिस्थाने, तद्यथा-चतुर्विशतिरेकविंशतिश्च । तत्रोपशमणि प्रतिपन्नस्य चतुर्विंशतिः, क्षायिकसम्यग्दृष्टिमधिकृत्य | द्वयोरपि श्रेण्योरेकविंशतिः। तथानिवृत्तिवादरसंपरायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि, तद्यथा-चतुर्विंशतिः, एकविंशतिः, त्रयोदश,द्वादश, एकादश, पञ्च, चतस्रः, तिस्रः, दे, एका च । तत्र चतुर्विंशतिरुपशमश्रेणिमधिकृत्य, एकविंशतिः क्षायिकसम्यग्दृष्टेद्वयोरपि श्रेण्योः, शेषाणि पुनः क्षपकश्रेण्याम् , तानि च प्रागेव भावितानि । सूक्ष्मसंपरायगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथाचतुर्विंशतिः, एकविंशतिः, एका च । तत्र चतुर्विंशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च क्षायिकसम्यग्दृष्टेः, एते च द्वे अपि प्रकृति| सत्कर्मस्थाने उपशमश्रेण्यां, एका च क्षपकश्रेण्याम् । तथा द्वे प्रकृतिसत्कर्मस्थाने उपशान्तमोहगुणस्थानके, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । एते च द्वे अपि प्रागिव भावनीये ॥१२॥
(उ०) एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानेषु चिन्तयन्नाह-यावदुपशान्तमोहगुणस्थानकं तावन्मिथ्यादृष्टयादिषु गुणस्थानेषु क्रमेण च्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्र मिथ्यादृष्टिगुणस्थाने त्रीणि प्रकृतिसत्कर्मस्थानानि-अष्टाविंशतिः, सप्तविं| शतिः, षड्विंशतिश्चेति । एतानि च प्रागेव भावितानि । सासादनगुणस्थाने एकं प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् । सम्यमिथ्यादृष्टिगुणस्थाने त्रीणि प्रकृतिसत्कर्मस्थानानि-अष्टाविंशतिः, सप्तविंशतिः, चतुर्विंशतिश्चेति । तत्र योऽष्टाविंशतिसत्कर्मा सन् सम्यमिथ्यात्वं
OMDOGate
DSSSSSSCOM
॥३६॥
For Private and Personal Use Only