________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
Fevie
कसाया होंति चउद्ध'त्ति-अणंताणुबंधिणो संतकम्मं पडुच्च चउब्विहा-सादियाइ। कहं ? भन्नति-सम्महिट्ठिणा || उबलियं तं पुणो भिच्छत्तं गतो बंधति तं पडुच्च साइयं संतकम्म, तं हाणमपत्तपुब्बस्स अणादियं, धुवाधुवा पुच्चुत्ता। 'तिहा सेस'त्ति-छव्वीसुत्तरस्स पगतिसयस्स संतकम्मं तिविहं-अणातियधुवाधुवमिति । कहं ? भण्णइ-धुवसंतकंमत्तातो आदी नत्थि तम्हा अणाईयं, धुवाधुवं पुवुत्तं । सादिअणातिपरूवणा भणिया ॥२॥ __(मलय०)-सम्प्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणार्थमाह-'दिद्विदुग'त्ति। 'दृष्टिद्विक' सम्यक्त्वसम्यग्मिथ्यात्वरूपं, आयुषि चत्वारि, घा 'छग्गई' त्ति-मनुष्यद्विकं देवद्विकं नरकद्विकं च, 'तनुचतुर्दशक'-वैक्रियसप्तकाहारकसप्तकरूपं, तथा तीर्थकरनामोच्चैर्गोत्रं च, एतासाम
टाविंशतिप्रकृतीनां सत्कर्म द्विविधं-द्विप्रकारम् , तद्यथा-सादि अध्रुवं च । साद्यध्रुवता चाध्रुवसत्कर्मत्वादवसेया। तथा प्रथमकषाया अनन्तानुबन्धिनः सत्कर्मापेक्षया चतुर्विधाः, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च । तथाहि-ते सम्यग्दृष्टिना प्रथममुदलिताः, ततो मिथ्यात्वं गतेन यदा भूयोऽपि मिथ्यात्वप्रत्ययेन बध्यन्ते तदा सादयः, तत्स्थानमप्राप्तस्य पुनरनादयः, ध्रुवाध्रुवता पूर्ववत् । तथा शेषाः षविंशतिशतसंख्याः प्रकृतयः सत्कर्मापेक्षया त्रिधा-त्रिप्रकाराः, तद्यथा-अनादयो ध्रुवा अध्रुवाश्च । तत्रानादित्वं ध्रुवसत्कर्मत्वात् , ध्रुवाध्रुवता पूर्ववत् ।।२।।
(उ०)- सम्प्रत्युत्तरप्रकृतीनां साधनादिग्ररूपणामाह-दृष्टिद्विकं सम्यक्त्वसम्यमिथ्यात्वरूपं, आयुषि चत्वार्यपि, 'छग्गइ' तिमनुष्यद्विकं देवद्विकं नरकद्विकं च, तनुचतुर्दशक-वैक्रियसप्तकाहारकसप्तके, तीर्थकरनाम, उच्चैर्गोत्रं च, एता अष्टाविंशतिप्रकृतयः S) सत्कर्म प्रतीत्य द्विविधा:-सादयो धुवावेति । साधध्रुवभावश्चासामध्रुवसत्कर्मत्वादेवावसेयः । तथा प्रथमकषाया अनन्तानुबन्धिनः
RSORRC
For Private and Personal Use Only