________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः
॥२७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तद्यथा - ज्ञानावरणीयं दर्शनावरणीयमित्यादि । उत्तरप्रकृतिगतमष्टपञ्चाशदधिकशतप्रकारं, तद्यथा - मतिज्ञानावरणीयमित्यादि । पुनरेकैकं चतुविधम्, तद्यथा प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म च । तदेवमुक्तो भेदः । सम्प्रति साद्यनादि - प्ररूपणार्थमाह- 'धुत्र' इत्यादि । अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा, तद्यथा - ध्रुवमधुत्रमनादि च । तत्रानादित्वं सदैव भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया || १ ||
( उ० ) - तदेवमभिहित उदयः । अथ सत्ताऽभिधेया, तत्र चेमेऽर्थाधिकाराः - भेदः, साद्यनादिप्ररूपणा, स्वामित्वं चेति । तत्र भेदनिरूपणं तावदाह - मूलप्रकृतिगतमुत्तरप्रकृतिगतं चेति सत्कर्म द्विविधम् । तत्र मूलप्रकृतिगतमष्टप्रकारमुत्तरप्रकृतिगतं चाष्टपञ्चा शदधिकशतप्रकारम् । पुनरेकैकं चतुर्विधं प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म चेति ज्ञेयम् । अथ साद्यनादिप्ररूपणां कुर्वन् मूलप्रकृतिविषयां तामाह-'धुव' इत्यादि, अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा - ध्रुवमध्रुवमनादि चेति । तत्रानादित्वं सदैव भावात् । ध्रुवाधुवताऽभव्यभव्यापेक्षया ॥ १ ॥
इयाणि उत्तरपगतीणं भन्नति
दिट्टिदुगाउग छग्गति तणुचोद्दसगं च तित्थगरमुच्चं । दुविहं पढमकसाया होंति चउद्धा तिहा सेसा ॥२॥
(चू० ) – 'दिट्ठिदुगाउग छग्गह तणुचोद्दसगं च तित्थगरमुच्चं 'ति-दिट्टिदुगं संमत्तमसाणि आउगाणि चत्तारि छग्गतित्ति निरयदुगं मणुयदुगं देवदुगं तणुचउदसगंति वेउब्वियआहारसत्तग तित्यकरउच्चागोयाणं एएसिं अट्ठावीसाते कम्माणं संतकम्मं दुविहं साति य अधुवं च । कहं ? भण्णइ - अबुवसंतकम्माओ चेव । 'पढम
For Private and Personal Use Only
सत्ता
| साद्यनादि
प्ररूपणा
॥२७॥