SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदयः जघन्यप्रदेशोदयस्वामित्वं का सम्यक्त्वप्रभावतः प्रभूतान् पुद्गलान् अनन्तानुबन्धिनां संवन्धिनः प्रदेशसंक्रमतः परिशाटयति । ततः पुनरपि मिथ्यात्वं गतः । कर्मप्रकृतिः मिथ्यात्वप्रत्ययेन च भूयोऽप्यनन्तानुबन्धिनो बध्नाति । तस्य आवलिकाया बन्धावलिकायाश्चरमसमये पूर्वबद्धानामनन्तानुबन्धिनां ॥२२॥ जघन्यः प्रदेशोदयः । आवलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदयो भवति, ततो जघन्यः प्रदेशोदयो न लभ्यते इति कृत्वा आवलिकायाश्चरमसमये इत्युक्तम् । संसारे चैकजीवस्य चतुष्कृत्व एव मोहनीयस्योपशमो भवति न पञ्चकृत्व इति चतुष्कृत्वो ग्रहणम् । मोहोपशमनेन किं प्रयोजनम् ? इति चेत् , उच्यते-इह मोहोपशम कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुण|संक्रमेण प्रभूतं संक्रमयति, ततः क्षीणशेषाणां तेषां अनन्तानुवन्धिषु बन्धकाले स्तोकमेव संक्रामति, ततो मोहोपशमग्रहणम् ।।२६।। | (उ०)-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूतें गते सति मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययेन संयोजयत्यनन्तानुब-11 न्धिनो बनाति, तान् बद्धा परिणामपरावृत्त्या सम्यक्त्वं गतः, तच्च दीर्घकालं द्वात्रिंशं सागरोपमशतं यावदनुपालयति, सम्यक्त्वप्रभावतश्च तावता कालेन प्रभूताननन्तानुबन्धिनां सम्बन्धिनः पुद्गलान् प्रदेशसंक्रमद्वारेण परिशाटयति । ततः पुनरपि मिथ्यात्वं गत्वा मिथ्यात्वप्रत्ययेन भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तस्यावलिकाया बन्धावलिकायाश्चरमसमये पूर्वबद्धानामनन्तानुबन्धिनां जघन्यः | प्रदेशोदयः । आवलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदीरणानिष्पन्न उदयो भवति ततो जघन्यः प्रदेशोदयो न | लभ्यत इत्यावलिकायाश्चरमसमय इत्युक्तम् । संसारे चैकजीवस्य चतुर्वारमेव मोहोपशमो भवति न पञ्चवारमिति चतुर्वारग्रहणम् । मोहोपशमग्रहणस्य किं प्रयोजनम् ? इति चेत्,उच्यते-इह मोहोपशमं कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुणसंक्रमेग प्रभूतं संक्रमयति, ततोऽन्यत्र संक्रमद्वारा क्षीणशेषाणां तेषामनन्तानुवन्धिषु बन्धकाले स्तोकमेव दलिकं संक्रामतीति मोहोपशमग्रहणम् ॥२६॥ ॥२२॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy