________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EDITORakkar
ऽऽवलिकायाश्चरमसमये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य जघन्यः प्रदेशोदयः। तथाऽनन्तानुबन्धिवर्जद्वादशकषायपुरुषवेद| हास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृतीरुपशमय्य देवलोकं गतस्य तासां सप्तदशप्रकृतीनामेवमेवोदीरणोदयचरमसमये जघन्यः प्रदेशोदयः । आसां हि सप्तदशानामपि प्रकृतीनामन्तरकरणं कृत्वा देवलोकं गतः सन प्रथमसमय एव द्वितीयस्थितेः सकाशाद्दलिकमाकृष्योदयसमयादारभ्य गोपुच्छाकारेण विरचयति । तद्यथा-प्रथमसमये प्रभूतं, द्वितीयसमये विशेषहीनं, तृतीयसमये विशेषहीनं, एवं | यावदावलिकाचरमसमये विशेषहीनम् । एवं दलिकरचनायां कृतायामावलिकायाश्चरमसमये जघन्यः प्रदेशोदयो लभ्यते । उपशान्तकषाय उपशामको वा कालगतः सन् सर्वार्थसिद्धे महाविमाने यातीति भगवत्यादौ सिद्धम्, तत्र च नपुंसकवेदस्त्रीवेदशोकमोहनीयानन्तानुबन्ध्यरतिमोहनीयप्रकृतीनामुदयो नास्तीति तत्पतिषेधः कृतः॥२५॥ चउरुवसमित्तु पच्छा संजोइय दीहकालसम्मत्ता । मिच्छत्तगए आवलिगाए संजोयणाणं तु ॥२६॥
(०)–चत्तारि वारे उवसामणं करेंतस्स बहुगा पोग्गला गुणसेढीए सेसमोहकमाणं खिजंति खीणसेसा बज्झमाणीसु थोवा संकमिस्संति पच्छा 'संजोजियत्ति-पच्छा अणंताणुबंधिणोबंधित्तु अंतोमुहुत्तं दीहकालं'संमतंति-पुणो संमत्तं पडिवनो सागरोवमाणं बे छावट्ठीतो संमत्तं अणुपालेतु अंते मिच्छत्तं गयस्स आवलियाए| गयाते से काले पढमसमयबद्धस्स उदीरणुदेतित्ति 'संजोयणाण'त्ति-अणंताणुबंधीणं जहन्नतो पदेसुदओ भवति॥
(मलय०)-'चउरुवसमित्तु'त्ति-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूर्ते गते सति मिथ्यात्वं गतः। ततोऽपि मिथ्यात्वप्रत्य-10 | येन 'संयोजनान्' अनन्तानुबन्धिनो बध्नाति । ततः सम्यक्त्वं गतः। तच्च दीर्घकालं द्वात्रिंशं सागरोपमाणां शतं यावत् अनुपालयन्
cakr
DIHD
For Private and Personal Use Only