SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदयः जघन्यप्र| देशोदयस्वामित्वं S| देवलोगगयस्स उदीरणुदयस्स अंते जहन्नतो पदेसुदओ। इथिवेयणपुंसगअणअरतिसोगाणं उवसमसेढीतो कर्मप्रकृतिः |सरिउं देवत्तं गयस्स उदओ नस्थित्ति ण गहिया ॥२५॥ ॥२१॥ ___ (मलय०)-'दसणमोहे'त्ति-क्षपितकांशस्य औपशमिकसम्यग्दृष्टेरौपशमिकसम्यक्त्वात् पच्यवमानस्य अन्तरकरणे स्थितेन द्वितीयस्थितेः सकाशात् सम्यक्त्वादीनां दलिकानि समाकृष्य यान्यन्तरकरणे चरमे आवलिकामात्रभागे गोपुच्छाकारसंस्थानेन रचितानि, तद्यथा-प्रथमसमये प्रभृतम्, द्वितीयसमये विशेषहीनम्, तृतीयसमये विशेषहीनम्, एवं यावच्चरमसमये विशेषहीनम् , तेषामुदय उदीरणोदय उच्यते । तस्मिन् उदीरणोदये आवलिकामानं गत्वा आवलिकायाश्चरमसमये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य | जघन्यप्रदेशोदयः। तथाऽनन्तानुबन्धिवर्जद्वादशकषायपुरुषवेदहास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृतीरुपशमय्य देवलोकं गतस्य एवमेवेति-उदीरणोदयचरमसमये तासां सप्तदशप्रकृतीनां जघन्यः प्रदेशोदयः। आसां हि सप्तदशानामपि प्रकृतीनामन्तरकरणं कृत्वा देवलोकं गतः सन् प्रथमसमये एव द्वितीयस्थितेः सकाशाद्दलिकमाकृष्योदयसमयादारभ्य गोपुच्छाकारेण विरचयति, तद्यथा-उदयसमये प्रभूतम् , द्वितीयसमये विशेषहीनम् , तृतीयसमये विशेषहीनम्, एवं यावदावलिकाचरमसमयः, ततः आवलिकाचरमसमये | जघन्यः प्रदेशोदयो लभ्यते ॥२५॥ (उ०)-क्षपितकमांशस्यौपशमिकसम्यग्दृष्टरौपशमिकसम्यक्त्वात्प्रतिपततोऽन्तरकरणे स्थितेन द्वितीयस्थितेः सकाशात्सम्यक्त्वादीनां दलिकानि समाकृष्य यान्यन्तरकरणे चरमे आवलिकाभागमात्रे गोपुच्छाकारसंस्थानेन प्रथमसमये प्रभूतानां द्वितीयादिसमयेषु च | क्रमशो विशेषहीनविशेषहीनानां निवेशलक्षणेन रचितानि तेषामुदय उदीरणोदय इत्युच्यते, तस्मिन्नुदीरणोदये आवलिकामात्रं गत्वा DANCERODE SODINESS ॥२१॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy