________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः |
॥१९॥
sahasa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समये स्तोकं प्राप्यते, अन्यच्चोत्कृष्टसंक्लेशयुक्तस्य प्रदेशोदीरणा स्तोका भवति । यतस्तस्यानुभागोदीरणा बही प्रवर्तते यत्र चानुभागोदीरणा बह्वी प्रवर्तते तत्र स्तोका प्रदेशोदीरणा, ततो 'मिच्छत्तगतो अतिकिलिट्ठो' इत्याद्युक्तम् ||२०-२१ ।।
( उ० ) - तदेवमुक्त उत्कृष्ट प्रदेशोदयखामी । अथ जघन्यम देशोदय स्वाम्यभिधीयते - जघन्यस्वामीत्ययं भावप्रधानो निर्देशः, प्रथमा च सप्तम्यर्थे, ततोऽयमर्थः - जघन्य प्रदेशोदय स्वामित्वे प्रकृतमधिकारः । क्षपितकर्माश इत्यत्र सप्तम्यास्तृतीयार्थत्वात्क्षपितकर्माशेन, तत्र कश्चित्क्षपितकर्माशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुष्क उत्पन्यनन्तरमन्तर्मुहूर्ते गते सति सम्यक्त्वं प्रतिपद्यते । तच्च सम्यक्त्वं देशोनानि दशवर्षसहस्राणि यावत्परिपाल्यान्तर्मुहूर्त्ताविशेषे जीविते सति मिथ्यात्वं गतः । स चातिसंक्लिष्टपरिणामो वक्ष्यमाणकर्मणामुत्कृष्टां स्थितिं बजुमारभते, बहुतरं च दलिकं तदानीमुद्रर्तयति तावद्यावदन्तर्मुहूतं । ततः संक्लिष्टपरिणाम एव कालं कृत्वै केन्द्रियो जातः, तञ्जन्मप्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरण केवलज्ञानावरण केवलदर्शनावरणमनःपर्यायज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां जघन्यः प्रदेशोदयो भवति । इह प्रायः सर्वदलिकमुद्वर्तितमिति स्तोकं प्राप्यते प्रथमसमये, किं चोत्कृष्टसंक्लेशवतः प्रदेशोदीरणा स्तोका भवति, तस्यानुभागोदीरणाया एव बह्वयाः प्रवृत्तेः, अनुभागोदीरणायां च बह्वयां प्रवर्तमानायां प्रदेशोदीरणायाः स्तोकाया एव प्रवृत्तिनियमात् । अनेनैवाशयेन मिथ्यात्वगतोऽतिक्लिष्ट इत्युक्तम् ॥ २०-२१ ॥
ओहीण संजमाओ देवत्तगए गयस्स मिच्छत्तं । उक्कोसठिईबंधे विकढणा आलिगं गंतुं ॥ २२ ॥ ( ० ) - ओहिनाणओहिंदसणावरणियाणं 'संजमातो'त्ति खवियकम्मंसिगो अपच्छिमे भवरगहणे संजमं पडिवन्नो अपरिवडिएण 'देवत्तगते गयस्स मिच्छत्तं' ति-देवलोगं गतो ततो अंतोमुहुत्तेण मिच्छत्तं गतो 'उक्कोस
For Private and Personal Use Only
उदयः जघन्यप्र
देशोदयस्वामित्वम्
॥१९॥