________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
CODEODKhaek
| परिसटन्ति, स्तोका एव च शेषीभवन्ति, ततो न तया उत्कृष्टः प्रदेशोदयो लभ्यते, तत उक्तं लघुक्षपणयाऽभ्युत्थितस्येति । तस्य |
गुणितकाशस्य क्षीणमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयो भवति । नवरं 'ओहीणाणोहिलद्धिस्स' |त्ति-अवध्योरवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य क्षपणायोत्थितस्योत्कृष्टः प्रदेशोदयो वाच्यः । १५ अवधिज्ञानं धुत्पादयतो बहवः पुद्गलाः परिसटन्ति-क्षीयन्ते ततो नावधियुक्तस्योत्कृष्टप्रदेशोदयलाभ इत्यनवधिलब्धियुक्तस्येत्युक्तम्।
तथा मोहानां-मोहनीयप्रकृतीनां सम्यक्त्वसंज्वलनचतुष्टयवेदत्रयाख्यानामष्टानां गुणितकांशस्य क्षपकस्य स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः। तथा जिने केवलिनि उदयो यासां ताजिनोदयिकास्तासां मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषद्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रकृतीनां गुणितकमांशस्य सयोगि| केवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्छ्वासनाम्नः पुनरुज्कासनिरोधकाले, तथा|ऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरोच्चैर्गोत्राणां द्वादशप्रकृतीनां गुणितकाशस्त्रायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः ॥११॥
(उ०)-उत्कृष्टप्रदेशोदयस्वामित्व एव विवेकमाह-आवरणस्य पञ्चप्रकारस्य ज्ञानावरणस्य चतुष्प्रकारस्य च दर्शनावरणस्य विघ्नस्य पञ्चप्रकारस्यान्तरायस्य सर्वसंख्ययाऽऽसां चतुर्दशप्रकृतीनां लघुक्षपणयाऽम्युत्थितस्य तस्य गुणितकाशस्य क्षीणमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः । इह द्विधा क्षपणा--लघुक्षपणा चिरक्षपणा च । तत्र योऽष्टवार्षिक एव सप्तमासाभ्यधिकः संयम प्रतिपन्नस्तत्प्रतिपच्यनन्तरं चान्तर्मुहूर्तेन क्षपकश्रेणिमारभते तस्य या क्षषणा सा लघुक्षपणा । यस्तु प्रभूतकालं गृह-१५
OakalDRDO
For Private and Personal Use Only