________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततोऽपि संयतस्यानन्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरोत्तरविशुद्धिप्रकर्षवशाद्यथोतरमसंख्येयगुणदलिका भावनीया ॥८-९ ॥
( उ० ) - कृता साद्यनादिप्ररूपणा । अथ स्वामित्वमभिधेयं । तच्च द्विधा - उत्कृष्ट प्रदेशोदयखामित्वं, जघन्य प्रदेशोदयस्वामित्वं च । तत्रोत्कृष्ट प्रदेशोदयं ( प्रदेशोदयस्वामित्वं ) प्रतिपिपादयिषुस्तदौपयिकीः संभवतीर्गुणश्रेणीः सर्वा अपि निरूपयति- इहैकादश गुणश्रेणयः । तद्यथा - सम्यक्त्वोत्पादे प्रथमा गुणश्रेणिः १ । द्वितीया श्रावके देशविरते २ । तृतीया विरते सर्वविरते प्रमत्तेऽप्रमत्ते च ३ । चतुर्थी संयोजनाविनाशेऽनन्तानुबन्धिनां विसंयोजने ४ । पश्चमी दर्शनमोहनीयत्रितयक्षपके ५ । षष्ठी चारित्रमोहनीयोपशम के ६ । सप्तमी उपशान्तमोहे ७ । अष्टमी मोहनीयक्षपके ८ । नवमी क्षीणमोहे ९ । दशमी सयोगिकेवलिनि १० । एकादशी त्वयोगिकेवलिनीति ११ । अत्र यथोत्तरं प्रदेशतः श्रेणिरसङ्घयेयगुणा । तथाहि सर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां दलिकं, ततोऽपि देशविरतिगुणश्रेण्यामसङ्ख्येयगुणं, ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणं, एवं तावद्वाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणम् । अत एवो दयः प्रदेशोदयोऽप्येतासु गुणश्रेणिषु यथोत्तरमसंख्येयगुणो वाच्यः । तथा सर्वास्वप्येतासु गुणश्रेणिषु कालस्तद्विपरीतः - उदयक्रम विपरीतः 'संखेञ्जगुणसेटि' त्ति-संख्येयगुणश्रेण्या वाच्यः । तथाहि - अयोगिकेवलिगुण श्रेणिकालः सर्वस्तोकः, ततः सयोगिकेवलिगुणश्रे णिकाल: संख्येयगुणः, ततोऽपि क्षीण मोहगुण श्रेणिकाल: संख्येयगुणः, एवं तावत्पश्चानुपूर्व्या वक्तव्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एषा सम्यक्त्वोत्पादगुणश्रेणिः शेषाश्च यथोत्तरमसंख्येयगुणदलिकाः कालतश्च संख्येयगुणहीना उपरिष्टाच्च पृथुत्वेन यथोत्तरं विशाला विशालतरा हृदि व्यवस्थाप्य भावनीयाः । स्यादेतत् कथं दलिकं यथोत्तरमसंख्येयगुणं प्राप्यते ? उच्यते
For Private and Personal Use Only