________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DVOKALASHGCERGS
४ वैक्रियं कुर्वतः प्राणपानपर्याप्त्या पर्याप्तस्योडासे क्षिप्ते प्रागुक्ता पञ्चविंशतिः षड्विंशतिर्भवति, तत्र च प्राग्वदेक एव भङ्गः, तैजस्का
यिकवायुकायिकयोरातपोद्योतयशःकीर्तीनामुदयाभावात्तदाश्रितविकल्पाभावः । सर्वसंख्यया षड्विंशतौ श्रयोदश भङ्गाः । तथा प्राणा| पानपर्याप्त्या पर्याप्तस्योवाससहितायां षड्विंशतो आतपोद्योतयोरन्यतरस्मिन्नुदिते सप्तविंशतिर्भवति । अत्र ये प्रागातपोद्योतान्यतर
सहितायां पविंशतौ प्रतिपादितास्त एव षभङ्गाः । सर्वसंख्ययैकेन्द्रिजाणां भगा द्विचत्वारिंशत्।। ___ अथ द्वीन्द्रियाणामुदयस्थानान्युच्यन्ते-द्वीन्द्रियाणामुदयस्थानानि षद्, तथाहि-एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशदे| कत्रिंशच्चेति । तत्र तिर्यग्दिकं द्वीन्द्रिय जातिस्त्रसं बादरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीय॑यशःकीयोरेकतरा चेत्येता नव प्रकृतयः प्रागुक्तद्वादशध्रुवोदयप्रकृतिसहिता एकविंशतिः, इयं चान्तरालगतिस्थस्य द्वीन्द्रियस्यावाप्यते, अत्र भङ्गास्त्रयः-अयशःकीर्त्या सहापर्याप्तनामोदये वर्तमानस्यैकः, पर्याप्तकनामोदये वर्तमानस्य च यशःकीय॑यश कीर्तिभ्यां द्वाविति । तस्यैव शरीरस्थस्य औदारि-| कद्विकहुण्डसेवार्कोपघातप्रत्येकलक्षणाः षद् प्रकृतय उपनीयन्ते तिर्यगानुपूर्वी चापनीयत इति पविंशतिर्भवति, अत्रापि भङ्गास्त्रयः | प्राग्वत् । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगत्योः क्षिप्तयोरष्टाविंशतिः, अत्र यशाकीय॑यश-कीर्तिभ्यां द्वौ भङ्गो, 12 अपर्याप्तकप्रशस्तविहायोगत्योरत्रोदयाभावात् । ततः प्राणापानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते एकोनत्रिंशत् , अत्रापि तावेव द्वौ भङ्गो, यद्वा शरीरपर्याप्त्या पर्याप्तस्योवासेऽनुदिते उद्योते तूदिते एकोनविंशत् , इहापि प्राग्वत् द्वौ भङ्गो, सर्वमीलने एकोनविंशति चत्वारो भङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्योवाससहितायामेकोनत्रिंशति सुखरदुःखरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशद्भवति, अत्र सुखरदुःखरयशःकीर्घायशःकीर्तिभ्यां चत्वारो भङ्गाः । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योते तूदिते त्रिंशत् , अत्र यश-कीर्त्य
For Private and Personal Use Only