________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥१२४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हितायामष्टाविंशतौ सुखरे क्षिप्ते एकोनत्रिंशत्, अत्रापि प्राग्वद्भङ्गा अष्टौ, अथवा प्राणापानेन पर्याप्तस्य खरेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, अत्रापि प्राग्वद्भङ्गा अष्टौ सर्वसंख्ययै कोनत्रिंशति भङ्गाः षोडश । ततः सुखरसहितायामे कोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत्, | अत्रापि भङ्गाः प्राग्वदष्टौ । सर्वसंख्यया वैक्रियं कुर्वतां तिरथां भङ्गाः षट्पञ्चाशत् । सर्वेषां तिर्यक् पञ्चेन्द्रियाणां सर्वमीलनेन भङ्गाचत्वारि सहस्राणि नव शतानि द्विषष्टिश्च ।
अथ मनुष्याणामुदयस्थानानि वाच्यानि, तत्र सामान्यमनुष्याणामुदयस्थानानि पञ्च तद्यथा - एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । एतानि सर्वाप्यपि यथा प्राक् तिर्यक्पञ्चेन्द्रियाणामुक्तानि तथाऽत्रापि वक्तव्यानि, नवरमेकोनत्रिंशत्रिंशच्चोद्योतर हिता वक्तव्या, वैक्रियाहारक संयतान्मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात्, तत एकोनत्रिंशति भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि । त्रिंशति चैकादश शतानि द्विपञ्चाशदधिकान्येवेति, सर्वसंख्यया प्राकृतमनुष्याणां भङ्गाः षट्विंशतिशतानि द्विकाधिकानि । वैक्रियमनुष्याणामुदयस्थानानि पञ्च तद्यथा - पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । तत्र मनुष्यगतिः पञ्चेन्द्रियजातिर्वैक्रियद्विकं समचतुरस्रमुपघातत्रस बादरपर्याप्तप्रत्येकानि सुभगादुर्भगयोरेकतरं आदेयानादेवयोरेकतरं यशः कीर्त्त्ययशः कीर्थोरेकतरेति त्रयोदश द्वादशभिध्रुवोदयिनीभिः सहिता पश्चविंशतिः, अत्र सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशः कीर्त्त्ययशः कीर्त्तिभ्यां चाष्टौ भङ्गाः । देशविरतानां | सर्वविरतानां वा वैक्रियं कुर्वतां सर्वप्रशस्त एव भङ्गोऽवधारणीयः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तखगतौ च क्षिप्तायां सप्तविंशतिः, अत्रापि प्राग्वदष्टौ भङ्गाः । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः अत्रापि भङ्गाः प्राग्वदष्टौ अथवा संयतानामुत्तरवक्रियं कुर्वनां शरीरेण पर्याप्तानामुच्छ्वासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, अनैक एव प्रशस्तपदो भङ्गः, संयतानां दुर्भगा -
For Private and Personal Use Only
A Dasa
नाम्नःजीवे
षृदयस्थानानि
भंगाच
॥ १२४॥