________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ उक्ते ते अत्र विहायोगतिद्विकेन गुणिते अवगन्तव्ये, तथा च सत्यत्र भङ्गानां पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति । ततः प्राणानपानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते एकोनत्रिंशत् । अत्रापि भङ्गाः प्राग्वत् पञ्च शतानि षट्सप्तत्यधिकानि, अथवा शरीरपर्याप्त्या
पर्याप्तस्योडासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत्, अत्रापि भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि, सर्वसंख्यया भङ्गानामेकोन| त्रिंशति द्विपञ्च शदधिकान्येकादश शतानि । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरदुःस्वरयोरन्यतरस्मिन् प्रक्षिप्ते त्रिंशद्भवति । अत्र ये | उच्छ्वासेन षट्सप्तत्यधिकपश्चशतप्रमाणा भङ्गा उक्तास्ते स्वरद्विकेन गुण्यन्ते, जातान्येकादश शतानि द्विपञ्चाशदधिकानि, अथवा प्राणा | | पानपर्याप्तस्य खरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद्भवति । अत्र भङ्गानां पश्च शतानि षट्सप्तत्यधिकानि, सर्वसंख्यया त्रिंशति भङ्गानां सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां त्रिंशत्युद्योतनाम्नि प्रक्षिप्ते एकात्रंशद्भवति, तत्र ये स्वरसहितायां - त्रिंशति द्विपञ्चाशदधिकैकादशशतसंख्या भङ्गा उक्तास्त एवात्रापि द्रष्टव्याः । सर्वसंख्यया प्राकृतपञ्चेन्द्रियतिरश्चां भङ्गाश्चत्वारि सह-13 स्राणि नव शतानि षट् च । अथ वैक्रिय कुर्वतां तिर्यपञ्चेन्द्रियाणामुदयस्थानानि वाच्यानि, तानि च पश्च, तश्राहि-पश्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । तत्र चैक्रियद्विकं समचतुरस्रमुपघातं प्रत्येकमिति पञ्च पकृतयः प्रागुक्तायां तिर्यपश्चेन्द्रियप्रायोग्यामेकविंशती प्रक्षिप्यन्ते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चविंशतिः स्यात् , इह सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्घायशःकीर्तिभ्यां च भङ्गा अष्टौ। ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च क्षिप्तायां सप्तविंशतिः, तत्रापि भङ्गाः | प्राग्वदष्टौ । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ, अथवा शरीरपर्याप्त्या पर्याप्तस्योवासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ, सर्वसंख्ययाऽष्टाविंशतौ भङ्गाः षोडश । ततो भाषया पर्याप्तस्योच्छ्वासस
PRADERS
For Private and Personal Use Only